________________
682
न्यायमञ्जरी तत्र साधनायाह – 'सामान्य मन्द्रियकं नित्यम्, तहि तथैव घटो. sपि नित्योऽस्तु' इति। अयमस्यैवंवदतो भ्रमः-किल नित्यानित्यपक्ष. वृत्तिः अनैकान्ति'को भवति हेतुः। घटस्य तु नित्यतायां एकस्मिन्नित्य. पक्ष एव वृत्तः अनैकान्तिक'तामेष विजह्यादिति । तदेवमस्य ब्रुवतः प्रतिज्ञाहानिर्भवति । घटस्य हि नित्यत्वे 'तदृष्टान्तबलादेव शब्दोऽपि नित्यः स्यादिति ॥ .
[ धर्मकी.क्षेपः] अत्र कोतिराह - प्रतिजैव तावदसाधनाङगवचन मिति तदभिधानं निग्रहस्थानं भवितुमर्हति, न तद्धानिः। न च हानिरप्यस्ति। यदि नाम घटस्य दृष्टन्तीकृतस्य प्रतिदृष्टान्तधर्म नित्यत्वमयमभ्युपैति, किमियता शब्दानित्यत्वप्रतिज्ञामवजहाति ॥
अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एवं । स चाय. मनकान्तिकहेत्वाभासांप्रयोगादेव पराजीयते, न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम् ॥
[आक्षेपस्य समाधानम् ] अत्रोच्यते-प्रतिज्ञायास्तावदसाधनाङगवचनता नास्तीत्यवयवलक्षणे नर्णीतमेतत् । प्रतिज्ञासिद्धयर्थ एव सर्ववादिनां प्रयासः। अनिर्दिष्टा चसा साधयितुमशक्यैवेति न तद्वचनमसाधनाङगवचनम्। लौकिकेध्वपि ऋणादानादिविवादपदेषु प्रतिज्ञ हानिमेव मुख्यं पराजयकारणमाहुः। यथाऽऽह नारदः
* विजह्यादिति भ्रमः-इत्यन्वयः । अनैकान्तिकता परिहता भवतीति भ्रमः॥ + प्रयोगः-उद्भावनम् । हेत्वाभासस्यापि निग्रहस्थानपरिगणनमस्ति ।
1 क-ख,
न ह-च.
सा-ख.