SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ 681 द्वादशमाह्निकम् दन्यच्चेत् वचनं, सेयं विप्रतिपत्तिः। अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा, तदेव निग्रहस्थानद्वयमनेन* श्लो'कद्वयन निबद्धम्, न पुनरभिनवमल्पमपि विचित्प्रेक्षितमिति || - [ निग्रहस्थानव्यवस्थापि न युक्ता] न च यथासंख्यनियमेन द्वयोट्टे निग्रहस्थाने वर्णनीये, अपि तु यथा संभवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम्। द्वाविंशतिभेदत्वं च निग्रहस्थानानामसङकीर्णोदाहरणविवक्षया कथ्यते, न नियमायेत्युक्त. मेव। परस्पर विसदृशं च लक्षणमेषां इदानीमुपदिश्यत एव। तत्रैव चायुक्तत्वमेषाम् , बालिशप्रलापकल्पत्वं वा पराक्रियत एवेत्यलमति. प्रसङगेन ॥ - [प्रतिज्ञाहानिः ] एवं सामान्यलक्षणं विभागं चाभिधाय विशेषलक्षणान्याहप्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ ५.२.२ ॥ .. प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते, तत्र प्रतिवादिना च दूषणे उद्भाविते, तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानाति, तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहा निर्नाम निग्रहस्थानं भवति ॥ तद्यथा-'अनित्यः शब्दः, ऐन्द्रियकत्वात् , घटवत' इत्युक्ते, पर आह–'सामान्यमन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुः' इति ॥ *श्लोकद्वयं-सामान्यलक्षणपरविभागपरसूत्रद्वयम् ॥ + वादिनः विप्रतिपत्तिः, प्रतिवादिनः अप्रतिपत्तिरिति व्यवस्थयो । 1 के-ख,- नि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy