________________
680
भ्यायमञ्जरी ___ वादिना सिषायिषितपक्षसिद्धये साधनमभिधेयम्। स चेदसाधनाङगं ब्रूयात् , निगृह्येत। प्रतिवादिनाऽपि वाद्युक्ते साधने दूषणमुद्भाव. नीयम्। स चेददोषमेव दोषत्वेनोद्भावयेत् , निगृह्येत। ते एव द्वयो
दिप्रतिवादिनोनिग्रहस्थाने। अतोऽन्यथा निग्रहकरणमन्याय्यमेव । प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्शयिष्यते । कतिच्छात्रशिशुप्रलापप्रायाणि निग्रहस्थानानि निर्दिष्टानि । तादृशि शास्त्र लक्ष्यन्त इति परममप्रतिष्ठानम् ॥
[धर्मकीक्षिपस्य समाधानम् ] अत्रोच्यते-संक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि कि नोक्तवन्तः-'विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्' इति । एतच्च सामान्यलक्षणमखिलभेदसङग्रहक्षमं भवति, न भवदुक्तम् ।।..
तथा हि-उत्तराप्रतिभानेन वादिनोरन्यतरः पराजीयते, न वा ? न पराजीयत इति कथमुच्यते ? तकि मूक 'ए'व जित्वा गच्छतु । निगृह्यते चेत्, किमनेनापराद्धम् , नादोष उद्भावितः ॥
[विप्रतिपत्यप्रतिपत्त्योस्सर्वान्तर्भावः] . अथ प्रसज्यप्रतिषेधेनोद्भावनाभाव एव व्याख्यायते, तर्हि दूषणा. भासोद्भावनमनुमतं स्यात् । अथ दोषानुद्भाव नमादौ व्याख्याय, पुनरदोषोभावनम् आवृत्त्य पर्युदासेन वर्ण्यते, 'हन्त त हि ते एवैते विप्रति. पत्त्यप्रतिपत्ती उक्ते स्याताम् । दोषानुद्भावनमप्रतिपत्तिः, विपरीत. दोषोद्भावनं विप्रतिपत्तिः ॥
एवमसाधनाङगवचनमपि विकल्पनीयम्। प्रसज्यप्रतिषेधवृत्त्या साधनाङगस्यावचनं चेत्-सेयमप्रतिपत्तिः। पर्युदासवृत्त्या साधनाङगा.
1 ई-ख,
व-ख,
त-ख,
'त्तिः-ख.