SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ द्वादशमा वैधर्म्याभ्यां प्रत्यवस्थानप्रकारस्य बहुत्वात् जातिबहुत्वम् । तद्व्याख्यातम् । विप्रतिपत्त्यप्रतिपत्तिप्रकार बहुत्वान्निग्रहस्थान बहुत्वम् ॥ [ निग्रहस्थानविभागः ] 679 तद्वाविंशतिधा विभज्य दर्शयति प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्नयास : हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थकमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ ५-२-१ ॥ - अत्र अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, पर्यनुयोज्योपेक्षणम् - इति अप्रतिपत्त्या सङगृहीतानि; शेषाणि विप्रतिपत्त्या | 'पुनरुक्तम्, अधिकम्' इत्यसमासकरणेन विप्रतिपत्त्यैव वाभिमतम् । किमसमासक्लिष्टकल्पनया । साsपि हि कुत्सितैव प्रतिपत्तिः, यत् पुनरुक्तम्, अधिकं वा प्रयुज्यत इति । असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्तनम् । अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति ॥ [ धर्मकीर्तेराक्षेपः ] अत्र को तिराह - द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते । तेषां च प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे । कुतः - असाधनाङ्गवचनम् अदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy