________________
678
ध्यायमञ्जरी निग्रहः-पराजयः, तस्य स्थानम्-आश्रयः, कारणमित्यर्थः । किंच पराजयनिमित्तं विप्रतिपत्तिः, अप्रतिपत्तिश्च । विपरीता-कुत्सिता गर्हणीया प्रतिपत्ति:-विप्रतिपत्तिः–साधनाभासे साधनबुद्धिः, दूषणाभासे दूषणबुद्धिः । अप्रतिपत्तिस्तु आरम्भविषयेऽनारम्भः। आरम्भस्य विषय:साधने दूषणं, दूषणे चोद्धारः। तयोरकरणं-अप्रतिपत्तिः ॥
[ जल्पे पराजयकारणे] द्विधा हि वादी पराजीयते-यथाकर्तव्यमनारभमाणः, विपरीत वा प्रतिपाद्यमानः। अत एव न *कर्मकरणयोनिग्रहमादिशन्ति। न हि ताभ्यां किचिदपराद्धम्, स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात् । कर्ता तु प्रमाद्यन् अप्रयोज्यं प्रयुंजानः, प्रयोज्यमप्रयुंजानो वा निग्रहमर्हति । प्रायेण चातत्त्ववादिनो निगृह्या भवन्ति ॥
तत्त्ववाद्यपि कदाचन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनगणामपश्यन् निगृह्यत एव। अत एव च-भाष्यकृतोक्तम्-'तत्त्ववादिनमतत्त्ववादिनं चाभि . प्लवन्ते निग्रहस्थानानि' (न्या.भा. 5-2-1) इति। असमासकरणमनेक निग्रहस्थानभेदावरोधार्थम् ॥
अत एवानन्तरमाहतद्विकल्पाज्जातिनिग्रहत्थानबहुत्वम् ॥ १-२-६१ ॥
तदिति साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य, विप्रतिपत्त्यप्रतिप. त्योश्च परामर्शः। नानाकल्पो विकल्पः-प्रकारभेद इत्यर्थः। साधर्म्य
* कर्म-विषयः। करणं-न्यायप्रयोगादि । तयोर्न निग्रहः, किन्तु पुरुषस्थव। विषयः न हि केनाप्यन्यथयितुं शक्यः॥
+ पूर्वतनसूत्रद्वये उभयोः प्रस्तुतत्वात् तच्छब्दस्यैवं व्याख्यानम् ॥