SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ 692 न्यायमञ्जरी [अर्थान्तरम् । प्रकृतादादप्रतिसंबद्धार्थमर्थान्तरम् ॥ ५.२.७ ।। प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतः अर्थान्तरं नाम निग्रहः स्थानं भवति ॥ यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्द चेतसि निधाय तन्नित्य त्वसिद्धये 'नित्यः शब्दः, निरवंयवस्वात्' इत्यभिधित्सुरेव दुरितकर्मा दिभिः अनैकान्तिकतामाशङकमानः अर्थान्तरं नाम निग्रहस्थानं *जिगमिषुः, तत्रैव वाक्यशेषच्छाययोत्तिष्ठति 'नित्यः शब्दः; निरवयवत्वात् इति वयं पाणिनीयाः प्रतिपन्नाः, ये भगवतः पाणिनेश्छात्रा:. इति। कः पुनर्भगवान् पाणिनिरिति येनाक्षरसमाम्नायमधिगम्य महेश्वरात । कृत्स्नं व्याकरणं प्रोक्तं आचार्यो नस्स पाणिनिः॥ .. कः पुनर्महेश्वरः, यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति-- अत्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः। विश्वस्थिति भवध्वंस हेतुरेको महेश्वरः॥ अपि च अचिन्त्यवेषाभरणस्य तत्त्वतः __ यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तीनि बिभति मौलिना कृतांजलिः पादरजांसि वासवः ।। * अवशादेवेति शेषः॥ 1 प-च-ज, लयोत्पाद-ज;
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy