________________
693
द्वादशमाह्निकम् कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति
इत्थंचारी क्रमो यस्मिन् इत्थं च करवर्तनाः । - इत्थं यत्र 'कटिगच्छेदाः 'दण्ड पादास्तथेदृशाः ॥
इत्येकैकमुपदेशयन् उत्थाय नृत्यति। तदेतदर्थान्तरं निग्रहस्थान. मसाधनाङग मिति ||
कीर्तिनाऽप्यनुमोदितम्-द्वयोरपि च वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोः भवत्यदो निग्रहस्थानम् । यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति ||
. [निरर्थकम् ] . . वर्णक्रमनिर्देशवन्निरर्थकम् ॥५.२.८ ॥
अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति - अनित्यः शब्दः, कचटतपानां गजडदबत्वात् , घझढधभवत्' इत्येवं प्रकारम्। इदमपि वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । ययाक्रम साधनं दूषणं च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् ॥
[निरर्थकनिग्रहस्थानाक्षेपः] __ अत्राह-*सोऽयमुन्मत्तप्रलापमेव शास्त्रे लक्षयितुमुपक्रान्तः। न ह्यनुन्मत्तानामीइंश्यक्षराणि मुखानिर्गच्छन्ति। ईदृशां च निर्देशे कपोल. वादित्रकक्ष्याभिताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् ॥ ... अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश 'एष सूत्रे, 'वदिति वतिप्रयोगो वा? मतुप्पक्षे सर्व वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवे. दिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहिणिकाः प्रस्तूयेरन् ॥
* सोऽयं-सूत्रकारः॥ + निर्दुष्टन्यायप्रयोगादिकमपि। तत्राप्यस्ति हि वर्णक्रमनिर्देशः ॥ । घटो-ख, . दात्र-ख, वचनमि-ख, घ, ज, शे-च.