________________
द्वादशमाह्निकम्
675 एव शिक्षित्वाऽहमपि चतुर्थपक्षस्थः तथैव त्वयि दोषमपितवानिति, मम चेन्मतानुज्ञा, प्रथमतरं तवासौ भवेदिति* ||
तदेतदाहस्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषा
भ्युपगमात्समानो दोषः ॥ ५-१-४३ ॥ . स्वपक्षः मूलसाधनवाद्युक्तः–'प्रयत्नानन्तरीयकत्वादनित्यः शब्दः' इति । तल्लक्षणः-तत्समुत्थानः, तद्विषयः 'प्रयत्नकार्यानेकत्वात्' इति प्रतिषेधः। तमपेक्षमाणः, तमनुद्धृत्य-अनुज्ञाय प्रवृत्तः 'प्रतिषेधेऽपि समानो दोषः' इत्युपपद्यमानः, परपक्षेऽनैकान्तिकत्वदोषोपसंहारः। तस्य च हेतुनिर्देश इत्ययमनकान्तिकः प्रतिषेध इति, तस्मिन् सति परपक्षकथितान कान्तिकत्वदोषाभ्युपगमात्, तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति षष्ठः पक्षः ॥ .
.. . [ षट्पक्ष्यां पक्षविवेचनम् ] सेयं षट्पक्षी । तस्यां प्रथमतृतीयपंचमाः । स्थापनाहेतुवादिन:
। द्वितीय व तुर्थषष्ठाः प्रतिषेधवादिनः एते च साध्यसाधकत या परीक्ष्यमाणाः पौनरुक्त्यमतानुज्ञादिदोषापहतत्वात् अन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते ॥
तथा हि-चतुर्थषष्ठयोः पक्षयोः अर्थाविशेषात्पुनरुक्तदोषप्रसङगः । चतुर्थे पक्षे परस्य समानदोषत्वमुच्यते। षष्ठेऽपि तथैव समानः। तृतीय पंचमयोस्तृतीये पक्षे परोक्ष समानदोषत्वमभ्युपगम्यते । पंचमेऽपि मता. नुज्ञामुद्भावयता तदङगीकृतमेव भवति। तृतीयचतुर्थयोश्च परोक्तदोषा
* इयमेव प्रतिबन्दीत्युच्यते। स्वपक्षे दोषमनभ्युपगम्य 'ममाऽयं दोषः इत्यु च्यते, तर्हि तवैवायं प्रथमो दोषः स्यात्' इति ॥
1 तं-ख.