________________
676
न्यायमञ्जरी
नुद्धरणात्तुं मतानुज्ञेत्येवं षट्पक्ष्यामुभयोरसिद्धिः । तस्मात् सदुत्तरैरेव दोषचिकित्सा साधीयसी, नासदुत्तरैः, षट्पक्षीप्रसङ्गादिति * ॥
[ षट्पक्ष्यां विश्रान्तौ कारणम् ]
ननु ! असदुत्तरकथनेऽपि कथं षट्पक्ष्यामेव विरामः ? शतपक्षी सहस्रपक्षी वा कथं न प्रवर्तते ? कोऽत्र नियमः ? इति चेत्-उच्यतेइयत्येव निवर्तते वचनावकाश इति नानन्तपक्षता संभवति । तथा हिपूर्वोत्तरपक्षवादिनौ तावत् साधनदूषणवादिनौ भवत एव, कोऽत्र विचारः । तत्र स्थापनाहेतुवादिना तावत् प्रथमं स्वपक्षसाधनेऽभिहिते, दूषणवादिना च तत्र दूषणे वणिते, तृतीये वचसि वर्तमानः साधनवादी सम्यङनीत्योप क्रममाणः तदूषणमुद्धर्तुं शक्नुयान्न वेति तस्यामेव दशायां प्राड्विवाकायतो निर्णयः ॥
असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धाव काश:, तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानः तत्प्रतीपं योजयति । ततः स्थापनाहेतुवादी प्रतीपयोजनायामफलायां दुरुत्तरायां समव्यय फलाय. अशक्यक्रियायां च निरुद्योग: किंचिदभिनवं दूषणमुत्प्रेक्ष्य पंचमे वचसि स्थितो मतानुज्ञामाह ।
ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तत्पक्ष एवं योजयति- इत्येवं वृत्ते दूषणान्तरासंभवात्, प्रतीपयोजने च भग्नरसत्वात् तूष्णीमेवासितुमुचितमिति तावत्येव भवति वचनविरतिः, न शतसहस्राद्विपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव
तव्यम् ॥
वादिनोऽपि साध्यासिद्धिः स्यात् ।
+ तृतीय कक्ष्यायामित्यर्थः ॥
अतः वादिना सावधानेन भवि