________________
674
भ्यायमञ्जरी साधनवादिनि, भवति प्रतिषधवादिनोऽपि वचनावसर इति अवतरति षट्पक्षी ॥
स हि चतुर्थपक्षस्थ एवं वदतिप्रतिषेधविप्रतिषधे तत्प्रतिषधदोषवद्दोषः ॥ ५-१-४१॥
विविधः प्रतिषेधः-विप्रतिषेध इहोच्यते, न व्याधातः, प्रकृतसङगतेरभावात् । योऽयं प्रतिषेधेऽपि समानोऽनैकान्तिकत्वदोष उच्यते, स प्रतिषेधप्रतिषेधेऽपि भवत्प्रयुक्ते समानः, सोऽपि हि पूर्ववदनैक.न्तिक एवेति ततः पंचमं पक्षमवलम्ब्य मूलसाधनवादी *मतानुज्ञामुद्भावयति ॥
सा च
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसंगो
मतानुज्ञा ॥ ५-१-४२ ॥ प्रतिषेधेऽपि समानो दोष इति समुद्भावितं दोषमनुद्धृत्य तं प्रतिषेधं सदोषमभ्युपेत्य मदुक्ते प्रतिषेधविप्रतिषेधे-समानदोषप्रसङगमापादयतस्ते मतानुज्ञा निग्रहस्थानं भवति । 'चोरो भवान्' इत्युक्तेऽभियुक्तेन चौर्यमात्मनो निराकरणीयम्, न तु 'भवानपि चोरः' इति परः प्रतिपत्तव्यः -इति ॥
एवं पंचमपक्षस्थै मूलसाधनवादिनि कथितवति, परः षष्ठं पक्षमा स्थाय पुनरभिधत्ते-यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषापादनोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्य, हन्त तहि तवापि तदेव निग्रह स्थानमवतरति, त्वमप्येवमकार्षोंः। तथा हि द्वितीयपक्षस्थेन मया 'प्रयत्नकार्यानेकत्वात्' इति यदनकान्तिकत्वमुद्भावितम् , तदनुद्धृत्यैव 'प्रतिषेधेऽपि समानो दोषः' इति मय्येव प्रतीपमापादितम् । तदेवं त्वत्त
* स्वपक्षे दोषमभ्युपगम्य परपक्षे दोषोद्भावनं मतानुज्ञा निग्रहस्थानम् ॥