SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ 673 द्वादशमाहिकम् [षट्पक्षीविवरणम् ] इदमपरमिदानीमुपदिश्यते चतुर्विशतावपि जातिवादिना प्रयुक्तासु मूलसाधनवादी-विस्पष्टानुमानोदन्तपरीक्षणपुरस्सरं सदेवोत्तरं यथोपदिष्टमभिदधीत; न तु जातिप्रयोगानुकारिदुरुत्तरालापचापलेन षट्पक्षी प्रवर्तयेत्। तस्यां हि प्रस्तुतायां उभयोरपि वादिप्रतिवादिनोरसिद्धिः असद्वाचित्वात्। कथं पुनः षट्पक्षी प्रवतंत इति-तत्पथं दर्शयितु. माह प्रतिषेधे हि समानो दोषः ॥ ५.१.४ ० ॥ स्थापनाहेतुवादिना प्रथमपक्षस्थेन स्थापनाहेतुः प्रयुक्तः, 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इति ॥ ततो जातिवादी द्वितीयपक्षस्थः 'प्रयत्नकार्यानेकत्वात्' इति 'प्रयत्ना नन्तरीयकत्वं अभिव्यङग्येऽपि शब्दे भवति' इति हेतोरनैकान्तिकत्वमाह ॥ तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणा. नुपलब्धिक्रममनुसृत्य विशेषमुपदर्शयन् अनैकान्तिकतामुद्धरति, ततस्ताव'. त्येव पर्यवस्यति कथा-इति चतुर्थादिपक्षावसरविरहात् नावतरत्येव षट्पक्षी॥ यदि तु तं क्रममपहायैव तृतीयपक्षस्थोऽसौ वदति-हेतोश्चेदनकान्ति कत्वमुद्भावयसि, अनैकान्तिकत्वादसाधकः स्यादिति-नन्वयं तावकः प्रतिषेधोऽप्यनैकान्तिकः-किंचित्प्रतिषेधति, किंचिन्नेति-हेतोस्साधकत्वं प्रतिषेधति, न स्वरूपमिति । अत एवेत्थं प्रतिषेधस्यानकान्तिकत्वात् सोऽपि हि नाभिव्यक्तिपक्षमेव साधयेत्, उत्पत्तिपक्षेऽपि प्रयत्नसाफल्योपपत्तः । उभयत्रापि च विशेषहेतोरनपदेशात् । एवमनैकान्तिकत्वमभिहितवति* - * स्वपक्षे अनैकान्तिकस्वमनुद्धरन्, परपक्षे अनैकान्तिकत्वमापादयति चेदित्यर्थः ॥ 43
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy