________________
672
न्यायमञ्जरी यथा घटादि। किंचित् सदेवावरणव्यपनयनादिना प्रयत्नेना. भिव्यज्यते-यथा मृदन्तरितमुदकादि। एवं प्रयत्नकार्यनानात्वात् किं प्रयत्नेनाविद्यमानः शब्दो निर्वय॑ते घटवत् उत विद्यमान एवाभिव्यज्यते मृदन्तरितसलिलवदिति संशयः ॥
न चेयं संशयसमा जातिः, हेत्वर्थविकल्पनेनात्र प्रत्यवस्थानात्। तत्र हि निरवयवत्वाद्याकाशधर्मोपन्यासेन संशय आपादितः; इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति। उद्भावनाप्रकारभेदश्च जातीनां वैचित्र्यकारणमित्युक्तमेव ॥
अत्रोत्तरमकार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणानुपपत्तेः ।
. ॥५-१-३९॥ यद्यपि प्रयत्नकार्यान्यत्व*मुपलभ्यते ; तथापि प्रकृते शब्दे प्रयत्न स्याभिव्यक्तावहेतुत्वम्। न प्रयत्नतः शब्दमभिव्यनक्ति, किन्त्वभूतप्रादुर्भावमेव विधत्ते। कस्मात् ? 'अनुपलब्धिकारणानुपपत्तेः' । यत्र हि सतः पदार्थस्य प्रत्यत्नोऽभिव्यक्तिहेतुः, तत्र तस्य सतः . सलिलादेरनु पलब्धिकारणमस्ति मृदादिव्यवधानम्। तदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः संपाद्यते। शब्दस्य तु न किंचिदनुपलब्धिनिबन्धनं व्यवधानादि संभवतीति वणितम्। अतस्तस्यासत एवात्मलाभनिमित्तमुच्चारः णादिप्रयत्नः न सतोऽभिव्यक्तिनिमित्तम्। तस्मादनित्यः शब्द इति सिद्धम् ॥ ___ तदेवमनेन चतुर्विशतिविधजात्युदाहरणप्रतिसमाधानोपदेशवम॑ना शब्दानित्यत्वसाधके परकीयमपालम्भजातमेवंप्रायमखिलमपाकृतम्. आम्रसेकपितृतर्पणन्यायेन भवति भगवता सूत्र कारेण ॥
* कार्यान्यत्वं-कार्यविशेषः ॥ * उदाहरणप्रदर्शनव्याजेन स्वसिद्धान्तोऽपि स्थापित इत्यर्थः ।।