________________
671
द्वादशैमाह्निकम्
अस्योत्तरम्प्रतिषेध्ये नित्यमनित्यभावात् आनित्यत्वोपपत्तेः
प्रतिषेधाभावः ॥५-१.३७ ॥ प्रतिषेध्ये शब्दे नित्यमनित्यत्वस्य भावश्चेदुच्यते, तदनित्य एवासावक्तो भवति । अनित्यत्वोपपतेश्च तत्प्रतिषेधो नोपपद्यते । 'नित्यमनित्यत्वं शब्दस्य' इति च ब्रवीषि, नित्यतां च तद्योगादस्योपपादय. सीति महानयमायुष्मतो भ्रमः ॥
अथ निरधिकरणो धर्मः कथं स्यादिति-तदुच्यते--अनित्यत्वं हि नाम निरोधः, प्रध्वंसः, अभावः इत्यनर्थान्तरम् । अनित्यत्वादभाव इति तु व्यवहारमात्रम् । सा चेयमनित्यता शब्दावच्छिन्ना न, शब्दाधिकरणा। न घटाभावः घटाश्रितो भवितुमर्हति । भावस्वभावा हि धर्माः धर्माश्रिता भवन्ति, नाभावः। अभावस्त्वाश्रितोऽपि न प्रतियोग्याश्रितो भवति' किन्त्वर्थान्तरवृत्तिः भूप्रदेश इव घटाभाव इति ॥
नित्यानित्यत्वविरोधाच्च-नित्यत्वमनित्यत्वं चैकत्र धमिणि विरु ध्यते। तत् कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति ॥
[ कार्यसमः ] प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ५-१-३८ ॥ . प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः । 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इत्युक्ते, अपर आह - प्रयत्नस्य हि कार्यद्वैधमुपलब्धम्, किंचिदसदेव प्रयत्नेन निर्वय॑ते,
____ * न तु नित्यत्वं सिद्धयेत् । निराधारः धमः कथं स्यादिति चेत्, धर्मिणि सिद्धे साधारस्वम्, नेतरदेत्यदोषः । उपरिष्टादिदं स्पष्टम् ॥