Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
673
द्वादशमाहिकम्
[षट्पक्षीविवरणम् ] इदमपरमिदानीमुपदिश्यते चतुर्विशतावपि जातिवादिना प्रयुक्तासु मूलसाधनवादी-विस्पष्टानुमानोदन्तपरीक्षणपुरस्सरं सदेवोत्तरं यथोपदिष्टमभिदधीत; न तु जातिप्रयोगानुकारिदुरुत्तरालापचापलेन षट्पक्षी प्रवर्तयेत्। तस्यां हि प्रस्तुतायां उभयोरपि वादिप्रतिवादिनोरसिद्धिः असद्वाचित्वात्। कथं पुनः षट्पक्षी प्रवतंत इति-तत्पथं दर्शयितु. माह
प्रतिषेधे हि समानो दोषः ॥ ५.१.४ ० ॥ स्थापनाहेतुवादिना प्रथमपक्षस्थेन स्थापनाहेतुः प्रयुक्तः, 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इति ॥
ततो जातिवादी द्वितीयपक्षस्थः 'प्रयत्नकार्यानेकत्वात्' इति 'प्रयत्ना नन्तरीयकत्वं अभिव्यङग्येऽपि शब्दे भवति' इति हेतोरनैकान्तिकत्वमाह ॥
तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणा. नुपलब्धिक्रममनुसृत्य विशेषमुपदर्शयन् अनैकान्तिकतामुद्धरति, ततस्ताव'. त्येव पर्यवस्यति कथा-इति चतुर्थादिपक्षावसरविरहात् नावतरत्येव षट्पक्षी॥
यदि तु तं क्रममपहायैव तृतीयपक्षस्थोऽसौ वदति-हेतोश्चेदनकान्ति कत्वमुद्भावयसि, अनैकान्तिकत्वादसाधकः स्यादिति-नन्वयं तावकः प्रतिषेधोऽप्यनैकान्तिकः-किंचित्प्रतिषेधति, किंचिन्नेति-हेतोस्साधकत्वं प्रतिषेधति, न स्वरूपमिति । अत एवेत्थं प्रतिषेधस्यानकान्तिकत्वात् सोऽपि हि नाभिव्यक्तिपक्षमेव साधयेत्, उत्पत्तिपक्षेऽपि प्रयत्नसाफल्योपपत्तः । उभयत्रापि च विशेषहेतोरनपदेशात् । एवमनैकान्तिकत्वमभिहितवति*
- * स्वपक्षे अनैकान्तिकस्वमनुद्धरन्, परपक्षे अनैकान्तिकत्वमापादयति चेदित्यर्थः ॥
43
Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794