Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 454
________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० 'सङ्घातो वाक्यम्' इत्यत्रापि वर्णानाम् , पदानां वा सङ्घातो वाक्यं स्यात् ? प्रथमपक्षे पदाय दत्तो जलाञ्जलिः / द्वितीयपक्षे तु देशकृतः, कालकृतो वा पदानां सङ्घातः स्यात् ? तत्राद्यः पक्षोऽयुक्तः; क्रमोत्पन्नप्रध्वंसिनां तेषामेकस्मिन् देशे सकृदवस्थित्यभावतो देश कृतसंघा[ता]संभवात् / द्वितीयपक्षे तु पदेभ्योऽसौ भिन्नः, अभिन्नो वा ? न तावद्भिन्नोऽ5 नंशः; तथाविधस्यास्याप्रतीतेः, वर्णान्तरवत् सङ्घातविरोधाच्च / अथ तेभ्योऽभिन्नोऽसौ; किं सर्वथा, कथञ्चिद्वा ? यदि सर्वथा; कथमसौ सङ्घातः सङ्घातिस्वरूपवत् ? अन्यथा प्रतिपदं सङ्घातप्रसङ्गः / न चैकं पदं सङ्घातो नाम अतिप्रसङ्गात् / अथ कथञ्चित् ; तदा जैनमतप्रसङ्गः, परस्परापेक्षाऽनाकाङ्क्षपदसमूहरूपतामापन्नवर्णानां कालप्रत्यासत्तिरूप सङ्घातस्य कथञ्चिद्वर्णेभ्यो भिन्नस्य जैनोक्तवाक्यलक्षणानतिक्रमात् / साकाङ्क्षाऽन्योन्यान10 पेक्षाणां तु तेषां वाक्यत्वे प्राक्प्रतिपादितदोषांनुषङ्गः।। एतेन 'जातिः सङ्घातवर्तिनी वाक्यम्' इत्यपि नोत्सृष्टम् ; निराकाङ्क्षाऽन्योन्या (1) संघातस्य स्वरूपम्-"केवलेन पदेनार्थो यावानेवाभिधीयते / वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् // सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते / वाक्यार्थमेव तं प्राहुरने कपदसंश्रयम् / / केवलं पदं यस्यैवार्थस्य वाचकम् वाक्यस्थमपि तमेवाभिदधाति / ततः समुदये पदानां परस्परान्वये पदार्थवशाद् यदाधिक्यं संसर्गः स वाक्यार्थः। उक्तञ्च-यदत्राधिक्यं वाक्यार्थः स इति / अनेकपदसंश्रयमित्यनेन संघातो वाक्यमिति दर्शितम् ।"-वाक्यप० टी० 2142 / "यथा सावयवा वर्णा विना वाच्येन केनचित्। अर्थवन्तः समुदिताः वाक्यमप्येवमिष्यते ॥"-वाक्यप० 2155 / (2) तुलना"संघातो वाक्यमित्यत्रापि परस्परापेक्षाणां पदानामनपेक्षाणां वा ? प्रथमपक्षे निराकाङ्क्षत्वे अस्मत्पक्षसिद्धि: साकाङ्क्षत्वे वाक्यत्वविरोधः / द्वितीयविकल्पे अतिप्रसङ्गः।"-अष्टसह० पृ० 285 / स्या० र० पृ० 644 / (3) "देशकृतः कालकृतो वा वर्णानां संघातः स्यात् ।"-प्रमेयक० पृ० 459 / (4) पदानाम् / (5) "न वर्णेभ्यो भिन्न: संघातोऽनंशः प्रतीतिमार्गावतारी संघातत्वविरोधाद् वर्णान्तरवत् / नापि ततोऽनर्थान्तरमेव संघातः; प्रतिवर्णसंघातप्रसङ्गात् / न चैको वर्णः संघातो भवेत् -तत्त्वार्थश्लो० पृ० 426 / प्रमेयक पृ० 459 / (6) पदानाम् / (7) पदान्तरसाकाङ क्षत्वे वाक्यापरिसमाप्तिः, अन्योऽन्यानपेक्षत्वे तु पदत्वमेव स्यान्न वाक्यत्वमिति / (8) “अथ जातिः संघातवर्तिनीत्युद्दिष्टस्य जातिस्फोटस्यापि दृष्टान्तप्रदर्शनद्वारेण स्फुटीकरणायाह-यथा (क्षेपविशेषेऽपि कर्मभेदो न गृह्यते / आवृत्तौ व्यज्यते जातिः कर्मभिर्धमणादिभिः // वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः / अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते // इह भ्रमणलक्षणा कर्मजातिर्यथा विशिष्टप्रयत्नजनितेन क्षेपविशेषेणाभिव्यक्ता प्रत्येकपरिसमाप्तत्वात् / न च पावस्थेन सा विज्ञायते। भ्रमणानामावृत्तौ तु भ्रमणं भ्रमणं प्रति प्रतिपत्रा सा गृह्यते / एवं वर्णपदवाक्येषु श्रुतिरभिव्यञ्जको ध्वनिरत्यन्तभेदे तत्त्वस्य वर्णपदवाक्यस्फोटलक्षणस्य साऽभिव्यञ्जिका सरूपेव प्रतीयते, परमार्थतो भिन्नापि सती / कीदृशी? तुल्योपव्यञ्जनेति। तुल्यः सदृश उपव्यञ्जनः स्थानकरणाभिघातलक्षणो यस्याः सा तथेति / तेन भिन्नप्रयत्नोदीरितध्यन्यभिव्यक्तोऽयं जातिस्फोटो विलक्षण एवेति बोद्धव्यम् / युक्तञ्चतत् / यया निरंशस्यास्य स्फोटस्य पूर्वापरभाव उपाधिकृतो न स्वतो नित्यत्वादिति।"-वाक्यप०, टी० 2 / 20, 21 / (9) तुलना-"निराकाङ्क्षपरस्परापेक्षपदसंघातवर्तिन्याः सदशपरिणामलक्षणाया जातेर्वाक्यत्वघटनात् ।"-अष्टसह० पृ० 285 / प्रमेयक० पृ० 460 / 1-कृतक्रमासंभ-आ०, ब०। 2-धस्याप्रती-आ० / 3 कथञ्चिद्धर्मेभ्यो ब०।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634