Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 588
________________ 874 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० एतेन 'उपसर्गाद्यासक्तमिव अम्बरमपरिग्रहः' इत्यादि प्रत्याख्यातम् ; उपसर्गाद्यासक्ते वस्त्रे पतिते बुद्धिपूर्वग्रहणासंभवात् / ___अथोच्यते-स्त्रीणां वस्त्रत्यागाभ्युपगमे कुलस्त्रीणां लज्जाभूयिष्ठत्वात् दीक्षाग्रहणमेव न स्यात् , वस्त्रे तु सति तत्परिग्रहमानं दोषः सकलशीलपरिपालनं तु गुणः इति त्यागोपादानयोः गुणदोषाल्पबहुत्वनिरूपणेन भगवता वस्त्रमुपदिष्टं तासामिति; तदेतदस्माकमभीष्टमेव, नहि अंत्रार्थे वयं विप्रतिपद्यामहे, मोक्षे एव अस्माकं विप्रतिपत्तेः। नच तच्छीलं मोक्षप्रसाधनाय प्रभवति परिग्रहवदाश्रितत्वात् गृहस्थशीलवत् / नहि गृहस्थशीलं त्यागोपादानयोः गुणदोषाल्पबहुत्वनिरूपणेन भगवतोपदिष्टमपि मोक्षप्रसाधनाय प्रभवति एवं प्रकृतमपि / अथ तैच्छीलं हिंसाशबलितत्वात् न तत्प्रसाधनाय प्रभवति; 10 तदन्यत्रापि समानम् / न खलु स्त्रीसम्बन्धि शीलं हिंसाशबलं न भवति; यूंकालिक्षा द्यनेकजन्तुसम्मूर्च्छनाधिकरणवस्त्रसमन्वितत्वात् गृहस्थशीलवत् / तत्सम्मूर्च्छनाधिकरणस्य च वस्त्रस्य हिंसानङ्गत्वे मूर्द्धजानामपनयनानर्थक्यं स्यात् / ___ यदप्यभिहितम-'प्रमादाभावे तासां हिंसानुपपत्तेः' इत्यादि; तदप्यपेशलम् ; लोभकषायपरिणतौ तासामप्रमत्तत्वानुपपत्तेः, तत्परिणतेरेव प्रमादत्वात् / तदुक्तम्15 “विकॅहा तहा कसाया इंदिय णिद्दा य तह य पणगो (यो) य / ___ चदु चदु पण एंगेगे हुंति पमादा हु पण्णरस // " [पंचसं० 1 / 15 ] इति / लोभकषायपरिणतिश्च स्त्रीणां बुद्धिपूर्व वस्त्रस्वीकारात् अस्तीत्यवसीयते / अथ वीतरागत्वेऽप्यासां लज्जापनोदार्थ तत्स्वीकारसंभवात् नातस्तासां तत्परिणतिसिद्धिः; नन्वेवं कार्मपीडापनोदार्थ कामुकादिस्वीकारोप्यासां किन्न स्यादविशेषात् ? अथ तत्पीडासद्भावे वीतरागत्वं तासां विरुद्ध्यते, तदेतत् लज्जासद्भावेऽपि समानम् / न खलु वीतरागस्य लज्जा उपपद्यते, सति रागे बीभत्सावयवप्रच्छादनेच्छारूपत्वात्तस्याः / यो वीतरागो नासौ लज्जावान , यथा शिशुः, वीतरागा च भवद्भिरभिप्रेता आर्यिका इति / (1) "अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत / उपसर्गे वा चीरे ग्दादि संन्यस्यते चात्ते // " -स्त्रीमु० श्लो० 17 / (2) गृहस्थशीलम् / (3) पृ० 868 पं० 27 / (4) “पइडी पमादमइया एदासि वित्ति भासिया पमदा / तम्हा ताओ पमदा पमादबहुला त्ति णिद्दिट्ठा // संति धुर्व पमदाणं मोहपदोसा भयं दुगुंछा य / चित्ते चित्ता माया तम्हा तासि ण णिव्वाणं ॥"-प्रव० टी० पृ० 302 / "मायापमायपउरा पडिमासं तेसु होइ पक्खलणं। णिच्च जोणिस्सावो दारड्ढं णत्थि चित्तस्स ॥"भावसं० गा० 93 / (5) विकथास्तथा कषाया इन्द्रियनिन्द्रातथैव प्रणयश्च / चतुश्चतुःपञ्चकैकं भवन्ति प्रमादा: खलु पञ्चदश // गाथेयं जीवकाण्डेऽपि (34) वर्तते। उद्धृतेयम्-धवलाटी०पू० 178 / (6) "ह्रीशीतात्तिनिवृत्त्यर्थं वस्त्रादि यदि गृह्यते। कामिन्यादिस्तथा किन्न कामपीडादिशान्तये ।"-प्रमेयक० पृ०३३१ / (7) कामपीडा। (8) लज्जायाः / 1-सर्गाद व्यासक्त-आ०1 2 अत्रार्थेऽवद्यं विप्र-ब०।-प्रसाधाय ब०। 4-नाय भवत्येव प्रकृतब015 जकालि-ब०। 6-णामे तासा-ब०।7 एगेकं श्र०18 बुद्धिपूर्ववस्त्र-आ०, बुद्धिपूर्वकवस्त्र-श्र०। 9 कान्तादि-श्र०।

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634