Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ प्रवचनप्र० का० 76 ] स्त्रीमुक्तिवादः 877 रस्य तत्प्रारम्भहेतुतोपपद्यते / तथाहि-न स्त्रीशरीरं सकलकर्मक्षपणाप्रारम्भहेतुः महता पापेन मिथ्यात्वसहायेन उपार्जितत्वात् नारकादिशरीरवत् / स्त्रीनिवर्तकं हि कर्म महत्पापम् न मिथ्यादृष्टेरन्येन उपाय॑ते / यद्यपि सासादनसम्यग्दृष्टिरपि तदुपार्जयति तथाप्यसौ सम्यग्दर्शनमवसादयन् मिथ्यादृष्टिरेव, मिथ्यादर्शनाभिमुखस्यास्य मिथ्यादर्शनेनैव व्यपदेशात्। सम्यमिथ्यादृष्टिरपि हि तत्तावत् नार्जयति, किमङ्ग पुनः / सम्यग्दृष्टिः ? स्त्रीत्वेन उत्पद्यमानोऽपि जीवो मिथ्यात्वपरिणत एव उत्पद्यते / तदुक्तम् "सु हेडिमासु पुढविसु जोइस-वण-भवण-सव्वइत्थीसु / / वारेस (वारस) मिच्छुवादे सम्माइट्ठी ण उप्पयदि // " [पंचसं० 11193 (?) ] यासाश्च उत्कृष्टस्थितिकदेवपदप्राप्तिरपि नास्ति ताः मोक्षपदं प्राप्स्यन्ति इति महन्न्यायकौशलम् ! 10 यदप्युक्तम्-'अदृसमयेगसमये' इत्याद्यागमश्च स्त्रीनिर्वाणे प्रमाणम्' इत्यादि तदप्यनल्पतमोविलसितम्; अस्य आगमस्य अस्मत्प्रत्यप्रमाणत्वात् , तदप्रमाणत्वश्च प्रमाणबाधितार्थप्रतिपादकत्वात् सुप्रसिद्धम् / यथा च स्त्रीनिर्वाणलक्षणोऽर्थः प्रमाण . (1) “चित्तस्सावो तासिं सिथिल्लं अत्तवं च पक्खलणं। विजदि सहसा तासु अ उप्पादो सुहममणुआणं।"-प्रव० टी०पू० 303 / "सुहमापज्जत्ताणं मणुआणं जोणिणाहिकक्खेसु / उप्पत्ती होइ सया अण्णेसुय तणुपएसेसु // णहु अत्थि तेण तेसि इत्थीणं दुविहसंजमोद्धरणं / संजमधरणेण विणा ण हु मोक्खो तेण जम्मेण ॥"-भावसं० गा० 94-95 / “सदैवाशुद्धता योनौ गलन्मलाश्रयत्वतः / रजः स्खलनमतासां मासं प्रति प्रजायते / / उत्पद्यन्ते सदा स्त्रीणां योनौ कक्षादिसन्धिसु / सूक्ष्मापर्याप्तका .. मस्तिदेहस्य स्वभावतः // स्वभावः कुत्सितस्तासां लिंगञ्चात्यन्तकुत्सितम् / तस्मान्न प्राप्यते साक्षाद द्वेधा संयमभावना // उत्कृष्टसंयम मुक्त्वा शुक्लध्याने न योग्यता। नो मुक्तिस्तद्विना तस्मात्तासां मोक्षोऽतिदूरगः // सप्तमं नरकं गन्तु शक्तिर्यासां न विद्यते। आद्यसंहननाभावान्मुक्तिस्तासां कूतस्तनी // योषित्स्वरूपतीर्थेशां तल्लिगस्तनभूषिताः / अर्चाः प्रतिष्ठिताः क्वापि विद्यन्ते चेत्प्रकथ्यताम् / न सन्ति चेन्मताभावः सन्ति चेद् भण्डिमास्पदम् / एवं दोषद्वयासंगान्मोक्षो न घटते स्त्रियः ॥"भावसं० श्लो० 244-50 / (2) " सम्मत्तरयणपन्वयसिहरादो मिच्छभूमिसमभिमुहो। णासियसम्मत्तो सो सासणणामो मुणेयव्वो ॥"-जीवका० गा० 20 / “विपरीताभिनिवेशतोऽसदृष्टित्वात् / तर्हि मिथ्यादष्टिर्भवत्वयं नास्य सासादनव्यपदेश इति चेत् ; न; सम्यग्दर्शनचारित्रप्रतिबन्ध्यनन्तानुबन्ध्यदयोत्पादितविपरीताभिनिवेशस्य तत्र सत्त्वाद् भवति मिथ्यादृष्टिरपि तु मिथ्यात्वकर्मोदयजनितविपरीताभिनिवेशाभावान्न तस्य मिथ्यादृष्टिव्यपदेशः किन्तु सासादन इति व्यपदिश्यते ।"-धवलाटी० पू० 164 / (3) "....." वारसमिच्छोवादे सम्माइट्ठिस्स णस्थि उववादो"-पंचसं०। णेदेसु समुप्पज्जइ सम्माइट्ठी दु जो जीवो"-वलाटी० पु०२०९ / "हेट्ठिमछप्पुढवीणं जोइसि वण भवण सव्व इत्थीणं / पूण्णिदरे णहि सम्मो ण सासणो णारयापुण्णे ॥"-जीवका० गा०१२७ / अधस्तनषट्नरकेषु ज्योतिर्व्यन्तरभवनवासिष तिर्यमनुष्यदेवस्त्रीषु द्वादशसु मिथ्यात्वोपपादस्थानेषु सम्यग्दष्टयन समुत्पद्यन्ते इत्यर्थः / * (4) पृ० 869 पं० 13 / __1-वसावयेत् मि-आ०। 2-रपि हेतु तावत् श्र०। 3 किंपुनः श्र०। 4-णत्यवोल्प-ब० / 5 वारसतिमिच्छववावे आ०, श्र०। 6-वादेसम्या इत्थि न उप-श्र०। 7 अद्धसय-आ० / 8 अस्मान् प्रत्यप्र-श्र० /

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634