Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 864 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० समवशरणं विहाय भगवान् किमर्थ तत्र गच्छति-मनोविक्षेपपरिहारेण ध्यानसिद्ध्यर्थम्, निरोधाक्षमत्वतो यथासुखमवस्थानार्थम् , रहस्यकार्यानुष्ठानार्थं वा ? तत्रौद्यः पक्षोऽयुक्तः; अमनस्कतया भगवतो मनोविक्षेपाऽसंभवात् , योगनिरोधसद्भावेन उपचारतः तत्र ध्यानाभिधानाच्च। द्वितीयपक्षोऽप्यनुपपन्नः; अनन्तवीर्यस्य निरोधाऽक्षमत्वानुपपत्तेः। अनन्तसुखस्य दुःखलेशस्याप्यभावतो 'यथासुखम्' इत्यस्यापि दुर्घटत्वात् / रहस्यकार्यश्च निन्द्यम् , अनिन्धं वा ? न तावन्निन्द्यम् ; प्रक्षीणाशेषदोषस्य निन्द्यकार्यानुष्ठानविरोधात् / अथ अनिन्द्यम् ; तत्किं भोजनम् , कर्मक्षपणं वा ? न तावद्भोजनम् ; तस्य अमोहे भगवति प्रतिषिद्धत्वात् / अप्रतिषेधे वा कस्मादसौ एकान्ते गत्वा भुङ्क्ते-दृष्टि दोष]भयात् , याचकभयात्, अनुचितानुष्ठानत्वाद्वा ? तत्राद्यविकल्पोऽनुपपन्नः; भगवतो दृष्टिदोषागोचरत्वात्। यदीयेन हि नाम्ना अन्येषां दृष्टिदोषादेरुपशमो भवति स कथं तदोषगोचरः स्यात् ? द्वितीयविकल्पे तु भगवतो महद्दीनत्वं प्रख्यापितम्। न खलु महासत्त्वस्य पृष्ठतो लग्नान् बुभुक्षापीडितशिष्यान् विहाय पितुरिव पुत्रम् एकान्ते गत्वा भोजनं युक्तम् / अनुचितानुष्ठानत्वे तु न तत्र तत्परिकल्पना श्रेयसी स्त्र्यादिसेवनपरिकल्पनावत् / कर्मणामपि क्षपणं पूर्वोपार्जितानाम् ,भुक्तिकालोपार्जितानां वा तत्रै अर्हता विधीयते ? 15 पूर्वोपार्जितानाञ्चेत् ; घातिनाम् , अघातिनां वा ? न तावत् घातिनाम् ; तेषां पूर्वमेव क्षपितत्वात् / नाप्यघातिनाम् ; तेषां यथाकालं क्षपयिष्यमाणत्वात् , सततं शुक्लध्यानानलतः कर्मेन्धननिचयनिर्दहनसमर्थत्वाच्चास्य / नहि 'भगवतः शुक्लध्यानानलो देवच्छन्दके एव प्रैज्वलति न तु समवशरणादौं' इत्यभ्युपगमो युक्तः, तंत्रस्थस्यास्य ध्यानान्तरप्रसङ्गात् / ___ भुक्तिकालोपार्जितकर्मणां तु कथं क्षपणम् ? प्रतिक्रमणतश्चेत् ; अस्तु, परन्तु भगवतो 20 निर्दोषता दुर्लभा / यः प्रतिक्रमणं करोति नासौ निर्दोषः यथा अस्मदादिः, प्रतिक्रमणं करोति च भगवानिति / कृतदोषनिराकरणं हि प्रतिक्रमणम् , तत्कुर्वतः कथमस्य निर्दोषता स्यात् ? अथ तां ('तं) न करोति; कथं भुंजिक्रियातः समुत्पन्नदोषं निराकुर्यात् ? आहारकथामात्रेणापि हि अप्रमत्तोऽपि सन् साधुः प्रमत्तो भवति नाहन भुञ्जानोऽपि इति महच्चित्रम् ! दोषवत्त्वे चास्य श्रेणीत: पतितत्वान्न केवलभाक्त्वं स्यात् / (1) “निरवशेषनिरस्तज्ञानावरणे युगपत्सकलपदार्थावभासिकेवलज्ञानातिशये चिन्तानिरोधाभावेऽपि तत्फलकर्मनिर्हरणफलापेक्षया ध्यानोपचारवत् ।"-सर्वार्थसि० 9 / 11 / (2) एकासने शरीरा. वस्थितेः तत्परिस्पन्दस्य निरोधः / (३)एकान्ते / (4) समवशरणस्थितस्य भगवतः / (5) तुलना"किं चासौ भक्त्वा प्रतिक्रमणादिकं करोति न वा?"-प्रमेयक० पृ० 306 / (6) "मिथ्या दुष्कृताभिधानादभिव्यक्तप्रतिक्रियं प्रतिक्रमणम् ।"-सर्वार्थसि० 9 / 22 / (7) प्रतिक्रमणम् / (8) “अप्रमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो भवति नाहन्भुजानोऽपीति महच्चित्रम् ।"-रत्नक० टी०पू० 864 / प्रमेयक० पृ० 306 / 1 तत्राद्यपक्षो-ब०। 2 वंचकभ-श्र०। प्रज्वलितः श्र०, ज्वलति आ०। 4 परं च भग-ब०। 5 कस्य ब०। 6 भक्तिक्रि-श्र०।

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634