Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ प्रवचन१० का० 76 ] स्त्रीमुक्तिवादः 865 ____ यदप्युक्तम्- 'भुञ्जानोऽसौ गणधरदेवैरपि न दृश्यते' इत्यदि; तत्रादर्शने किं कारणम्बहलतमःपैटलाच्छादितत्वम् , काण्डपटाद्यावृतत्वम् , विद्याविशेषेण स्वस्य तिरोधानम् , अन्यजनातिशायी माहात्म्यविशेषो वा ? तत्राद्यपक्षोऽनुपपन्नः; तदेहदीप्त्या तमःपटलस्य निर्मूलोन्मूलितत्वात् / काण्डपटाद्यावृताय च तस्मै कथं भिक्षा दीयेत ? विद्याविशेषाभ्युपगमे चास्य विद्याधरादिवत् निम्रन्थताविरोधः / अथ अन्यजनातिशायी माहात्म्य- 6 विशेषः कश्चित्तस्येष्यते येन भुञ्जानो नाऽवलोक्यते इति; ननु अन्यजनातिशायी भोजनामावलक्षण एवाऽतिशयः अस्य इष्यताम् तस्यैव प्रमाणोपपन्नत्वात् / ततो भगवतोऽनन्तचतुष्टयलाभलक्षणां जीवन्मुक्तिमिच्छता अनन्तसौख्यमेष्टव्यम् / तदिष्टौ च च भुक्तथभावोऽभ्युपगन्तव्यः तमन्तरेणास्य अनन्तसौख्यानुपपत्तेः प्रतिपादितत्वात् इति // छ / तल्लक्षणा च मुक्तिः पुंस एव न स्त्रियाः; तस्याः नपुंसकवत्तदयोग्यत्वात् , तन्मुक्तिप्रसाधकप्रमाणासंभवाच्च / . नन्विदमस्ति तत्प्रसाधकं प्रमाणम्-अस्ति स्त्रीणां निर्वाणम् अँविकलकारणत्वात् स्लीनिर्वाणवादे सितप- पुंवत् / निर्वाणस्य हि कारणं रत्नत्रयम् , “सम्यग्दर्शनज्ञानचारित्राणि टानां शाकटायनस्य मोक्षमार्गः'' [तत्त्वार्थसू० 1 / 1] इत्यभिधानात् / तच्च स्त्रीषु विद्यते; 15 च पूर्वपक्षः- तथाहि-सर्वज्ञोक्तार्थानाम् ‘इदमित्थमेव' इति श्रद्धानं सम्यग्दर्शनम् , यथावदवगमः सम्यग्ज्ञानम् , तदुक्तव्रतस्य यथावदनुष्ठानं सम्यक्चारित्रम् , एतद्रत्नत्रयम् / एतच्च स्त्रीषु सिद्ध्यत् सर्वकर्मविप्रमोक्षलक्षणं मोक्षं साधयति / नहि स्त्रीषु रत्नत्रयस्य केनचिद्विरोधोऽस्ति यतोऽविकलकारणत्वासिद्धिः स्यात् / (1) 10 855 पं० 13 / (2) "तत्रादर्शनेऽयुक्तसेवित्वादेकान्तमाश्रित्य भुङ क्ते इति कारणम्, बहलान्धकारस्थितभोजनं वा, विद्याविशेषेण स्वस्य तिरोधानं वा?"-प्रमेयक० 10 307 / "तत्र तु प्रच्छन्नभुक्तौ मायास्थानं दैन्यवृत्तिः अन्येऽपि पिण्डशुद्धिकथिताः बहवो दोषाः ।"-प्रव० टी० प०२९। (3) "तहि परमौदारिकशरीरत्वाद भक्तिरेव नास्त्ययमेवातिशयः किन्न भवति ।"-प्रव० टो० पृ० 29 / (4) "अस्ति स्त्रीनिर्वाणं पुंवत् यदविकलहेतुकं स्त्रीषु / न विरुध्यति हि रत्नत्रयसंपद् निर्वृतेर्हेतुः ।।"-स्त्रीमु० श्लो०२ / सन्मति० टी० पृ०७५२ / एतदर्थम् उत्तराध्ययनस्य पाइयटीकापि विलोकनीया / "इत्थीलिङ्गसिद्धा-सम्यग्दर्शनादीनि पुरुषाणामिव स्त्रीणामप्यविकलानि दृश्यन्ते तथाहि....."-प्रज्ञा० मलय० पृ. 20 A. / नन्दि० मलय०१० 131 B. / रत्नाकराव०७५७ / षड्द० बह० इलो० 52 / “यथोक्तं यापनीयतन्त्रे-णो खलु इत्थी अजीवो, ण यावि.अभब्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो अइकूरमई, णो ण उवसन्तमोहा, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया, णो अपुव्वकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोगा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिगत्ति।"-ललितवि० पृ०५७ B. / शास्त्रवा० यशो० पृ० 429 B. / . 1-पटलसंछादितत्वम् श्र०। 2 दीयते ब० / -षाभ्युपगमाच्चास्य ब०। 4 यथार्थावगमः ब०। 5 तदुक्तस्य यथावद-आ०, तदुक्तं व्रतस्य ब०। 6-विप्रमोक्षणं मोक्षं आ० /

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634