Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 577
________________ प्रवचनप्र० का 0 76 ] केवलिकवलाहारविचारः इत्यादि; तदप्यनुपपन्नम् ; तज्ज्ञानस्य सोपयोगतया तत्काल एव स्वविषयाऽशेषार्थसाक्षाकरणसंभवात् / यदैव हि अवधिज्ञानोपयोगमवधिज्ञानी करोति तदैवासौ तद्विषयभूतमशेषं वस्तु पश्यति नान्यदेति, भोजनकाले यद्यसौ उपयोगं करोति तदाऽन्तरायो भवत्येव, नचायं प्रकारः केवलज्ञाने संभवति तस्य सदा उपयुक्तत्वात् / ____ यदप्युक्तम्-'नेन्द्रियार्थसम्बन्धमात्रेण मतिज्ञानं भवति' इत्यादि; तदप्यसुन्दरम् ; / विषयविषयिसम्बन्धे समुपजायमानस्य ज्ञानस्य अमतिज्ञानत्वे मतिज्ञानवातॊच्छेदप्रसङ्गात् / अथ मतिज्ञानावरणक्षयोपशमस्य सहकारिणोऽभावात् नेन्द्रियाणि स्वविषयसम्बन्धेऽपि स्वकार्यमाविर्भावयन्ति; तर्हि मोहनीयस्यापि सहकारिणोऽभावात् वेद्यमपि स्वकार्य न कुर्यात् इत्युक्तम् / / किञ्च, किमर्थमसौ भुङ्क्ते-शरीरोपचयार्थम् , ज्ञानदर्शनवीर्यादिक्षयनिवृत्त्यर्थम् , 10 क्षुद्वेदनाप्रतीकारार्थम्, आयुषोऽसाधितमुक्तिकस्यापवर्त्तननिवृत्त्यर्थम् , रसगृद्ध्युपशमार्थम्, लोकानुग्रहार्थं वा ? न तावत् शरीरोपचयार्थम् ; लाभान्तरायप्रक्षयात् प्रतिसमयं विशिष्टपरमाणुलाभादेव तत्सिद्धेः / तदर्थं तद्ग्रहणे च कथमसौ निर्ग्रन्थः स्यात् शरीरसम्मू संभवात् प्राकृतपुरुषवत् / नापि ज्ञानादिक्षयनिवृत्त्यर्थम् ; तत्क्षयनिबन्धनाभावादेव तदक्षयप्रसिद्धेः / ज्ञानादिक्षयस्य हि निबन्धनं ज्ञानावरणादिक्षयोपशमः, तस्मिन् सति 15 भोजनाद्यभावे तत्क्षयप्रतीतेः / स च प्रक्षीणाशेषावरणे भगवति नास्ति इति कथं तत्प्रक्षयाशङ्काऽपि यतो भुक्तिः स्यात् ? नापि क्षुद्वेदनाप्रतीकारार्थम् ; अनन्तसुखवीर्ये भगवति अस्याः संभवाभावस्य उक्तत्वात्। नापि आयुषोऽसाधितमुक्तिकस्य अपवर्तननिवृत्त्यर्थम; चरमोत्तमदेहानामनपवर्त्यायुष्कत्वादेव तथाविधस्यास्य अपवर्तनानुपपत्तेः / नापि रसगृद्धथुपशमार्थम् ; वीतमोहस्य रसगृद्धेरेवानुपपत्तेः। नापि लोकानुग्रहार्थम् ; अनन्त- 20 वीर्यस्य वीर्यक्षयनिबन्धनाभावतो भुक्तिमन्तरेणापि लोकमनुग्रहीतुं समर्थत्वात् / __ यच्चोक्तम्-‘देवच्छन्दके गत्वा यथासुखमास्ते' इत्यादि; तदप्युक्तिमात्रम् ; यतः (1) अवधिज्ञानस्य / (2) उपयोगसमये / (3) केवलज्ञानस्य / (4) पृ० 855 पं०४ / (5) तुलना-"ण बलाउसाहणठें ण सरीरस्स य चय? तेज / णाणटुं संजमठ्ठ झाण8 चेव भुंजंति ।"-मूलाचा० 6 / 62 // प्रव० टी० पृ० 29 / प्रमेयक० पृ० 306 / (6) शरीरोपचयार्थम् / (7) ज्ञानावरणीयकर्मणोऽभावादेव / (8) "औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः।" -तत्त्वार्थसू० 2153 / "चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः विपरीतसंसाराः तज्जन्मनिर्वाणाऱ्या इत्यर्थः ।"-सर्वार्थसि०। "चरमदेहा अन्त्यदेहा इत्यर्थः ये तेनैव शरीरेण सिद्धयन्ति, उत्तमपुरुषाः तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः"-तत्त्वार्थाधि० / “देवा नेरइयावि य असंखवासाउया य तिरमणुआ। उत्तमपूरिसा य तहा चरमसरीरा य निरुवकमा ॥"-ठाणांगवि०। (9) 'बाह्यप्रत्ययवशादायषो ह्रासोऽपवर्तः ।"-राजवा० 2 / 53 / (10) पृ० 558 पं० 10 / / 1 सदोषयुक्त-श्र०। 2 आयुषोऽनुदितमुक्ति-श्र० / शरीरमूसिं -श्र० / 4 अपवर्त्तनिवृ -ब०, अपवर्तनं निव-आ०। 5 मुक्तिम-श्र० /

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634