Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ प्रवचनप्र० का० 76 ] केवलिकवलाहारविचारः 861 यत्र हि अनन्तसुखं न तत्र दुःखलेशोऽप्यस्ति यथा सिद्धेषु, अनन्तसुखश्च अर्हति इति / ननु सकलबाधानिवृत्त्यात्मकं यंदनन्तं सुखं तत्राभिप्रेतं तदसिद्धम् , क्षुद्वाधाभ्युपगमात्, सकलकर्मविप्रमुक्तानां सिद्धानामेव हि तथाविधं तदस्ति नाऽर्हताम् तत्र वेदनीयोदयसंभवादिति; तदसत्; तदुदयस्य तत्र तद्बाधाहेतुत्वाभावप्रतिपादनात् / किश्च, अर्हति अनन्तं सुखं सर्वप्रदेशव्यापि अव्याहतमास्ते अप्रादेशिकत्वात्तस्य, / सुखदुःखयोरेकत्रैकदा विरोधतोऽसंभवाच्च, तत्कथं क्षुद्दुःखलेशोऽपि तत्र संभाव्यः ? अन्यथा अस्मदादिसुखवत् प्रादेशिकमेव तत्सुखं स्यात् / अतः तथाविधं सुखं भगवति सन्निधीयमानं स्वविरुद्धं दुःखं निवर्त्तयति यथा अग्निः शीतम् / तन्निवृत्तौ च तद्व्याप्यायाः क्षुधो निवृत्तिः, व्यापकनिवृत्तौ व्याप्यस्यावश्यं निवृत्तेः वृक्षनिवृत्तौ शिंशपावत् / प्रयोगः-यत्रै यद्विरोधि बलवदस्ति न तत्र अभ्युदितकारणमपि तद् भवति यथा अत्यु- 10 ष्णप्रदेशे शीतम्, अस्ति च क्षुदुःखविरोधि बलवत् केवलिनि अनन्तसुखमिति / तथा, यत्कार्यविरोध्यनिवर्त्य यत्रास्ति तत्र तदविकलमपि स्वकार्य न करोति यथा श्लेष्मादिविरुद्धाऽनिवर्त्य-पित्तविकाराक्रान्ते पुरुषे न दध्यादि इलेष्मादि करोति, वेद्यफलविरुद्धाऽनिवर्त्यसुखश्च भगवति इति / ततो निराकृतमेतत्-'नहि बालादौ ज्ञानाद्यपचये क्षुदुपचयः' इत्यादि; अनन्तसुखसहभाविनामेव ज्ञानादीनां क्षुद्विरोधित्वव्यवस्थितेः। 15 ___ यदप्युक्तम्-'नहि केवलिज्ञानादयः क्षुधं विरुन्धन्ति इत्यर्वाग्दृशा प्रतिपत्तुं शक्यमतीन्द्रियत्वात्तेषाम्' इत्यादि; तदप्युक्तिमात्रम् ; अतीन्द्रियत्वात्तेषां तद्विरोधित्वाऽप्रतिपत्तौ सर्वार्थसाक्षात्कारित्वादेरपि अप्रतिपत्तिप्रसङ्गात् / यथैव हि तेषामतीन्द्रियत्वात् 'एतत्सन्निधौ क्षुन्न भवति' इत्यर्वाग्दृशा प्रत्येतुं न शक्यते तथा 'एते सर्वसाक्षात्कारिणः' इत्यपि / अथ अनुमानात्तेषां तत्साक्षात्कारित्वं प्रतीयते; तद्विरोधित्वेन किमपराद्धं येन 20 एषामनुमानात् तन्न प्रतीयेत ? प्रतिपादितञ्च टुंद्विरोधित्वानुमानं प्राक् इत्यलमतिप्रसङ्गेन / सर्वज्ञत्वाच्च भगवतः क्षुदभावः, क्षुदभ्युपगमे हि तद्बाधया सर्वज्ञता हीयेत निःशक्तिकत्वञ्च स्यात् / अस्मदादौ हि क्षुत्प्रभवपीडाक्रान्ते ज्ञानादेरभावः सुप्रतीतः 'क्षुत्पीडितोऽहं न किञ्चिज्जानामि,न किञ्चित्पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः। यदप्युक्तम्-'ज्ञानावरणादिकर्मोदयनिबन्धनः तत्क्षयः' इत्यादि; तदप्यसाम्प्रतम् ; 25 (1) वेदनीयोदयस्य / (2) सर्वप्रदेशव्यापि अनन्तसुखम् / (3) नास्ति केवलिनि क्षुदुःखं तबलवद्विरोध्यनन्तसुखसद्भावात् / “यत्र यद्विरोधि” :-प्रमेयक० पृ० 305 / (4) केवलिनि वेदनीयं स्वकार्य क्षददुःखं न करोति तत्कार्यविरोध्यनिवर्त्य-अनन्तसुखसद्भावात् / (5) 10852 पं० 20 / (6) पृ० 853 पं० 2 / (7) केवलज्ञानादीनाम् / (8) क्षुद्विरोधित्वम् / (9) पृ० 854 पं०४।। 1 सिद्धेऽनन्त-श्र०। 2 यदत्यन्तं सुखं श्र०, यद्यनन्तं आ०। 3-गमात्कर्मवि-ब०। 4-शिकमिव आ०। 5 तथाविधसुखं ब०। 6 यथा आ०, ब०। 7 प्रतीयते ब०। 8 क्षुदविरो-आ०, क्षुद्वित्त्वानुमा-ब०।

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634