Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 581
________________ प्रवचनप्र० का०७६ स्त्रीमुक्तिवादः 867 स्यात् / नचाकारणाऽव्यापकस्य निवृत्तौ अकार्यव्याप्यस्य निवृत्तिः अतिप्रसङ्गात् , अतः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनम् / चरमदेहैः निश्चितव्यभिचारश्च; ते हि तेनैव जन्मना मुक्तिभाजो न सप्तमपृथिवीं गच्छन्ति अथ च मुच्यन्ते / किञ्च, विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारं गच्छन्ति च तिर्यश्चः तदधोगत्यूनताऽहेतुः / नहि अधोगतौ स्त्रीपुंसयोरंतुल्यं सामर्थ्यमिति सुगतावपि अतु- 5 ल्यत्वं युक्तम् ; अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् / तथाहि- जगखगचतुप्पात्सर्पजलचराणां विषमाऽधोगतिः-भुजगानां सं(नामसं)ज्ञिनां प्रथमायाम् , खगानां तृतीयायाम् ; चतुष्पदा पञ्चम्याम् , सर्पाणां षष्ठ्याम् , जलचराणां सप्तम्यामधोभूमौ उत्पादात् , शुभगतिस्तु समा सर्वेषामेवैषां सहस्रारान्तस्योपरि उत्पादस्य संभवात् / न च वादादिलब्ध्यभावात्तासां मोक्षाभावः; 'इत्थमेव मोक्षः' इति नियमा- 10 (1) विषमगतयोप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् / गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहतुः ॥"-स्त्रीमु० श्लो० 6 / “अपि च भुजपरिसर्पाः द्वितीयामेव पृथिवीं यावद् गच्छन्ति न परतः परपृथिवींगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद् गच्छन्ति / तत्राधोगतिविषये मनोवीर्यपरिगतिवैषम्यदर्शनादूर्ध्वगतावपि च न तद्वैषम्यम् ।"-प्रज्ञा० मलय० पृ० 21 A. / नन्दि० मलय०. पृ० 133 A. / षड्द० बृह० श्लो०५२। शास्त्रवा० यशो० 10 428 B. युक्तिप्र० पृ० 115 / (2) "प्रथमायामसंज्ञिन उत्पद्यन्ते प्रथमद्वितीययोः सरीसृपाः तिसृषु पक्षिणः चतसृषूरगाः पंचसु सिंहाः षट्सु स्त्रियाः सप्तसु मत्स्यमनुष्याः"-राजवा० पृ० 118 / “अमण-सरिसपविहंगम-फणि-सिंहित्थीण-मच्छमणुवाणं / पढमादिषु उप्पत्ती अडवारादो दु दोण्णि वारोत्ति ॥"-त्रिलोकसा० गा० 205 / “असन्नी खलु पढम, दुच्चं च सरीसवा तइय पक्खी। सीहा जंति चउत्थिं उरगा पुण पंचमि पुढवि / छठ्ठि च इत्थिआओ मच्छा मणुया य सत्तमि पुढवि / एसो परमुववाओ बोधव्वो नरयपुढवीसु ॥"-बृहत्स० गा० 284-85 / त्रैलोक्यदी० गा० 253 / (3) "तैर्यग्योनेषु असंज्ञिनः पर्याप्ताः पंचेन्द्रियाः संख्येयवर्षायुषः अल्पशुभपरिणामवशेन पुण्यबन्धमनुभूय भवनवासिषु व्यन्तरेषु चोत्पद्यन्ते / त एव संज्ञिनो मिथ्यादृष्टयः सासादनसम्यग्दृष्टयश्चासहस्रारादूत्पद्यन्ते त एव सम्यग्द ष्टयः सौधर्मादिषु अच्युतान्तेषु जायन्ते ।"-राजवा० पृ० 169 / “पंचिदियतिरियाणं उववाओक्कोसओ सहस्सारे"-बृहत्सं० गा० 164 / (4) “वादादिविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च / . जिनकल्पमनःपर्यवविरहेऽपि न सिद्धिविरहोस्ति // वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि / तासामवारयिष्यद् यथैव जम्बूयुगादारात् ।”-स्त्रीमु० श्लो० 7-8 / प्रज्ञा० मलय० पृ० 21 A. | रत्नाकराव० 7 / 57 / “नापि वादादिलब्धिरहितत्वेन; मूककेवलिभिर्व्यभिचारात् / ". -बड़द० बृह० श्लो० 52 / "माषतुषादीनां लब्धिविशेषहेतुसंयमाभावेऽपि मोक्षहेतुतच्छवणात, क्षायोपशमिकलब्धिविरहेऽपि क्षायिकलब्धेरप्रतिघातात् ।"-शास्त्रवा० यशो० पृ० 427 B. / 1-व्याप्यनिवृ-ब० / 2-गति न ता हेतुः ब०,-तिन्यूनताऽहेतुः श्र०। 3-रतुल्यसाम-आ० / 4 शुभगतावपि ब०, श्र० / 5 भुजगानां प्रथमायां आ०, श्र०, भुजगानां संज्ञिनां प्रथमायां ब०, पू० 10 / 6 प्रथमायां संजिनां द्वितीयायां खगानां तृतीयायाम् भुजगानां चतुर्थ्यां चतुष्पदानां पञ्चम्याम स्त्रीणां षष्ठयां जलचराणां ब०, प्रथमायां खगानां तृतीयायां चतुष्पदानां पंचभ्यां सर्पाणां षष्ठयाम्, जलचराणां त्रुटितायां पू० प्रतौ। 7 उपपावस्य श्र०।

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634