Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 545
________________ प्रवचनप्र० का 0 76 ] मुक्तिस्वरूपविचारः 831 ननु परमप्रकर्षप्राप्तसुखस्वभावतैव आत्मनो मोक्षः न तु ज्ञानादिस्वभावता, आनन्दरूपो मोक्ष तत्र प्रमाणाभावात् / सुखस्वभावतायां तु तत्सद्भावादसौ युक्ता / इति वेदान्तिनां तथाहि-आत्मा सुखस्वभावः, अत्यन्तप्रियबुद्धिविषयत्वात् , अनन्य पूर्वपदः परतयोपादीयमानत्वाच्च, यद् यदेवंविधं तैत्तत्सुखस्वभावम् यथा वैषयिकं सुखम् , तथा चात्मा, तस्मात्सुखस्वभाव इति / तथा, आत्मा सुखस्वभावः, 5 वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वात्, निरुपचरितप्रेयःशब्दवाच्यत्वाद्वा, रागिणां वैषयिकसुखवदिति / इष्टार्थो मुमुक्षुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात् , कृष्यादिप्रयत्नवत् इति / परमातिशयप्राप्तता च तत्सुखस्य अतोऽनुमानात्प्रसिद्धा-सुखतारतम्यं कचिद् विश्राम्यति, तारतम्यशब्दवाच्यत्वात् , परिमाणतारतम्यवदिति / तथा आगमोऽपि आत्मनो मोक्षे तत्स्वभावतायां प्रमाणम् 10 "श्रीनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते / " [ ] 'यदा दृष्ट्वा परं ब्रह्म सर्व त्यजति बन्धनम् / / / तदा तन्नित्यमानन्दं मुक्तः स्वात्मनि विन्दति // ' [ ] इति श्रुतिसद्भावात् / ननु नित्यानन्दस्य आत्मनि सर्वदा सद्भावाम्युपगमे संसारदशायामप्युपलम्भप्रस- 15 ___ (1) “एष एव ह्यानन्दयति" "आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचन"-तैत्ति० 2 / 74,9 / "आनन्दो ब्रोति व्यजानात्"-तैत्ति०३७। "विज्ञानमानन्दं ब्रह्म"-बहदा० 3 / 9 / 28 / 'आनन्दमयो'ऽभ्यासात्"-ब्रह्मसू० 1 / 1 / 12 / “तस्मादानन्दमयः पर एवात्मा"-शा० भा० / "ब्रह्मण्यानन्दशब्दोऽयं प्रयुक्तः सुखवाचकः / संवेद्ये च सुखे लोके आनन्दाख्या प्रयुज्यते ॥"-बृहदा० वा० 3 / 9 / 166 / विव० प्र० 10216 / "इत्यनवच्छिन्नानन्दप्राप्तिरेव स्वतः पुरुषार्थ इत्याहुः ।"-सिद्धान्तले० पृ० 509 / (2) "तदेतत्प्रेयः पुत्रात्प्रेयः अन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' 'आत्मानमेव प्रियमुपासीत ॥"बृहदा० 11418 / 'आत्मनः सुखरूपत्वात् आनन्दत्वं स्वलक्षणम् / परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः // सूखहेतूष सर्वेषां प्रीतिः सावधिरीक्ष्यते / कदापि नावधि: प्रीतेः स्वात्मनि प्राणिनां क्वचित् / / आत्माऽतः . परमप्रेमास्पदः सर्वशरीरिणाम् / यस्य शेषतया सर्वमुपादेयत्वमृच्छति // एष एव प्रियतमः पुत्रादपि धनादपि / अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥"-सर्ववेदान्तसि० श्लो० 623-27 / “आत्मा सुखाभिन्नः सुखलक्षणवत्त्वाद् बैषयिकसुखवत् आत्मा सुखम् अनौपाधिकप्रेमगोचरत्वात्"-संक्षेपशा० टी० पृ० 30-31 / “परमप्रेमास्पदत्वानुपपत्तिरप्यात्मनः सुखरूपत्वे प्रमाणम् ।"-चित्सु० पृ० 358 / सिद्धान्तवि० पृ० 445 / (3) वित्तस्त्रीपुत्रादयो हि आत्मार्थमुपादीयन्ते, परञ्चात्मन उपादानं तु नान्यार्थम्, स्वयमात्मा आत्मार्थमेवोपादीयते इत्यर्थः। (4) "प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् / आत्मार्थमेव नान्यार्थं नातः प्रियतमं परः ।"-सर्ववेदान्तसि० श्लो० 630 / (5) सुखस्वभावतायाम् / (6) 'मोक्षेऽभिपद्यते'-प्रश० व्यो० पृ० 20 ख०। "आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् ।"-वेदान्तसि० पृ० 151 / तुलना-"नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यते / " -न्यायभा० 111122 / न्यायमं० पृ० 509 / प्रकृतपाठः-सन्मति० टी० पृ० 151 / षडद० बृह. श्लो० 52 / (7) उद्धृतोऽयम्-षड्द० बृह० श्लो० 52 / 1 तत्सुख-श्र०। 2-शब्दवाचित्वाद्वा आ० ।-मानात्सिद्धा श्र० /

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634