Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 569
________________ प्रवचनप्र० का० 76] केवलिकवलाहारविचारः सङ्गतम् ; अवधिज्ञानिभिः परमर्षिभिरनेकान्तात् , ते हि सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते, एवं केवल्यपि / इन्द्रियविषये एव हि अन्तरायो नान्यत्र, अन्यथा छद्मस्थावस्थायामप्यन्तरायः स्यात् , भगवता तदापि अवधिज्ञानेन अशेषवस्तुसाक्षात्करणात् / न च भुक्तौ जिह्वारसप्राप्तेः केवलिनो मतिज्ञानानुषङ्गः; यतो न इन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति / किं तर्हि ? तत्सम्बन्धे मतिज्ञानावरणक्षयोपशमे च / सति / एतच्च प्रक्षीणाशेषावरणे केवलिनि नास्ति इति न तज्ज्ञानानुषङ्गः, अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूंपवासादिगन्धेन मरुत्सिंहासनस्पर्शेन सम्बन्धेऽपि मतिज्ञानमनुषज्येत / ___सं च भगवान् पूर्वाहे अपराह्ने च पादोनप्रहरं धर्मोपदेशनाकाल एव सिंहासनाधिरूढ आस्ते, शेषदिनं तु दिव्यस्थाने देवच्छन्दकाभिधाने गणधरदेवान्विहाय अन्य- 10 मनुष्यतिरश्चामगोचरे ईशानदिशायां समवशरणीयद्वितीयप्राकाराभ्यन्तरवर्त्तिनि गत्वा पल्यके आसने वा यथा सुखमास्ते / तत्र च गणधरदेवैरानीतमाहारं सकलदोषशुद्धं ज्ञात्वा क्षुद्वेदनोदये गृह्णाति / ते च 'आहारं तदीयहस्ते निक्षिप्तं पश्यन्ति, कथमसौ भुङ्क्ते' इत्येतत्तु न पश्यन्ति, मनुष्यतिरश्चां सर्वज्ञाहारनी(नि)हाराणामगोचरत्वात् इति॥छ।। अत्र प्रतिविधीयते / यत्तावदुक्तम्-'आहारवेद्यादिकर्मोदयलक्षणबाह्याभ्यान्तर- 15 कवलाहारनिरसनपुर- कारणसद्भावात् क्षुदुदये सति अविकलकारणा भगवतो भुक्तिर्भस्सरं केवलिनः नोंक- वत्येव' इत्यादि; तदसमीचीनम् ; येतः तत्सद्भावात्तदुदये केवलिनि मीहारप्रसाधनमू- आहारमात्रं प्रसाध्येत कवलाहारो वा ? प्रथमपक्षे सिद्धसाधनम् ; (1) "इन्द्रिय विषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ। तच्छब्दगन्धरूपस्पर्शप्राप्त्या प्रतिव्यढम ।।"-केवलिभ० श्लो० 33 / स्या० र०पू० 480 / "रासनं च मतिज्ञानमाहारेण भवेद्यदि / घ्राणीयं स्यात्तदा पुष्पघाणतर्पणयोगतः ॥"-द्वात्रिं० 30 / 21 / (२)"पूर्वद्वारेण समवसरणे प्रविशत्यथ। प्रदक्षिणीकृत्य पूर्वसिंहासने निषीदति / पादपीठन्यस्तपादः कृततीर्थनमस्कृतिः। विधत्तं देशनां स्वामी गम्भीरमधुरध्वनिः ।"-काललोक० 30 / 31-32 / (3) "प्राकारस्य द्वितीयस्यान्तरे चोत्तरपूर्वतः / देवच्छन्दं विचक्रस्ते स्वामिविश्रामहेतवे ॥"-त्रिषष्ठि०१।३।४४४, 679 / 'इत्थं बलिविधौ पुणे जिना: प्रथमवप्रतः। अवतीर्य द्वितीयस्य वप्रस्यैशानकोणके। देवच्छंदमागत्य सुखं तिष्ठन्ति नाकिभिः।"काललोक० 3068-69 / "तथाहि स भगवान् पूर्वाह्ने अपराले च पादोनप्रहरं यावत् धर्मोपदेशकाल एव सिंहासनाधिरूढ आस्ते, शेषं तु दिनं देवच्छन्दकनाम्नि दिव्यस्थाने यथासुखं गमयति / तत्र च गणधरदेवैरानीतमाहारं निखिलदोषविशुद्धं विज्ञाय क्षुद्वेदनोदये गृह्णाति / आहारं च तदीयपाणिपल्लवन्यस्तं मांसचक्षुषः पश्यन्ति, कथमसौ भुङ्क्ते इत्येतत्तु न पश्यन्ति,सर्वज्ञाहारनिहारयोर्मासचक्षुषामगोचरत्वात्।" -स्या० 2010 469 / (4) 10852 पं०१। (5) "अत्र किमाहारमात्रं प्रसाध्यते कवलाहारो वा?"-रत्नक० टी० पृ० 5 / प्रमेयक० पृ० 300 / लोक० 30 आस्ते, विज्ञान 1 परममहर्षिभिरमहर्षिभिर-ब० / 2-धूमवासादि-ब०। 8 पूर्वाह्न च पादोन-आ०, ब० / 4 अस्ति ब०। / तत्र गणधर-आ०। 6 तद्भावात्त-ब० /

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634