Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 546
________________ 832 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० ङ्गात् मुक्तेतरावस्थयोरविशेषप्रसङ्गः इति च न वाच्यम् ; नित्यानन्दस्य नित्यात्मनि सदा सद्भावेपि संसारदशायामावृतत्वेन अनभिव्यक्तितोऽनुपलम्भसंभवाऽविरोधात्, योगाभ्यासादावरणप्रक्षये मोक्षावस्थायां तदभिव्यक्तरुपलम्भः इति // छ // अत्र प्रतिविधीयते / यत्तावदुक्तम्-'आत्मा सुखस्वभावः' इत्यादि; तत्र किमिदं मोक्षावस्थायां कथ- सुखस्वभावत्वं नाम-सुखत्वजातिसम्बन्धित्वम् , सुखाधिकरणत्वं वा ? श्चिन्नित्यज्ञानादि- न तावत् सुखत्वजातिसम्बन्धित्वम् ; गुणे एव अस्य सद्भावात् / नहि प्रसाधनम्- एका काचिजातिः द्रव्यगुणयोः आत्मसुखयोः साधारणा उपलभ्यते / नापि सुखाधिकरणत्वम् ; नित्याऽनित्यविकल्पाऽनतिक्रमात्-यस्य हि सुखस्य अधिकर णमात्मा तत्सुखं किं नित्यम् , अनित्यं वा ? न तावदनित्यम् ; आत्मनोऽपि तेत्स्वभा10 वतयाऽनित्यत्वप्रसङ्गात् / न खलु स्वभावाभावे तद्वतोऽवस्थानं युक्तम् अतिप्रसङ्गात् / अथ नित्यम् ; किं कथञ्चित् ; सर्वथा वा ? यदि कथञ्चित् ; जैनमतसिद्धिः, द्रव्यतो नित्यस्य पर्यायतश्च अनित्यस्य कथञ्चिदाविर्भावतिरोभाववतः सुखपर्यायस्य आत्मनि ज्ञानादिपर्यायवत् स्याद्वादिभिरभ्युपगमात् / / ननु मुक्तौ सुखादिपर्यायस्य अपरापरस्य आविर्भावाभ्युपगमे तत्कारणं वक्तव्यम् , 15 अकारणकस्य तत्पर्यायस्य आविर्भावानुपपत्तेः इति च न चेतसि निधेयम् ; आत्मन एव तत्प्रतिबन्धकापायोपेतस्य तत्र तत्कारणत्वेन प्राक् प्ररूपितत्वात् / सौख्यादिप्रतिबन्धकमोहादिकर्मापायोपेतो हि आत्मैव मोक्षावस्थायां तथाभूतसुखज्ञानादिकारणम् घटाद्यावरणापायोपेतप्रदीपक्षणवत् स्वपरप्रकाशकाऽपरप्रदीपक्षणोत्पत्तौ / , किमपेक्षोऽसौ तदा तेजनयतीति चेत् ? 'तत्प्रतिबन्धकापायापेक्ष एव' इति ब्रूमः / तथाभूतस्यास्य 20 तदुत्पादनस्वभावतया तैदाऽन्यापेक्षाऽनुपपत्तेः, यद् यदा यदुत्पादनस्वभावं न तत्तदा तदुत्पादने अन्यापेक्षम् यथा अन्त्यावस्थायाम् अन्त्या कारणसामग्री स्वकार्योत्पादने, तदुत्पादनस्वभावश्च मोक्षावस्थायाम् अतीन्द्रियसुखाद्युत्पत्तौ प्रतिबन्धकापायोपेत आत्मा (1) "तस्मादनतिशयानन्दस्वभावस्यात्मनोऽविद्यातिरोधानमेव बन्धः, विद्यानिमित्तस्तदस्तमयो मोक्ष इति सिद्धम ।"-चित्सु० 10 361 / “प्रत्यगेव परांनन्दस्तिरोभूतः स्वमोहतः / स्वकण्ठचामीकरवत् प्राप्तप्राप्यः स्वविद्यया ॥"-वे० सि० सू० 4 / 10 / "यद्यपि संसारदशायामविद्यावतस्वरूपत्वादात्मा परमानन्दरूपतया न प्रथते तथापि तत्त्वविद्ययाऽविद्यानिवृत्तौ स्वप्रकाशतया स्वयमेव परमानन्दस्वरूपतया प्रकाशते"-सिद्धान्तबि० पृ० 450 / (2) पृ० 831 पं० 5 / (3) "तत्र यदि सुखस्वभावत्वं सुखत्वजातिसम्बन्धित्वम् ; तन्न आत्मनि सभाव्यते गणे एवास्योपलम्भात् / न ह्येकाहङ्कारादिवदपरा जातिः द्रव्यगुणयोः साधारणोपलब्धेति / अथ सुखाधिकरणत्वम् ; तन्नास्ति; नित्यानित्यविकल्पानुपपत्तेः ।"-प्रश० व्यो० पृ० 20 ग०। (4) सुखत्वजातिसम्बन्धित्वस्य / (5) अनित्यसुखस्वभावतया। (6) मोक्षे / (7) सुखादिपर्यायाविर्भाक्कारणत्वेन / (8) मोक्षावस्थायाम् / (9) सुखम् / (10) आत्मनः / / 1 सदास्यभावेऽपि आ० / एतदन्तर्गतः पाठो नास्ति आ०, श्र०। 2 स्याद्वा दिभिः ब० / 8 तथान्या-श्र०। 4-वं तत्तदा तदुत्पादनेऽन्यापेक्षम् आ०।

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634