Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 540
________________ 826 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० प्रागेव असत्त्वप्रतिपादनतस्तत्सन्तानस्य धर्मिणोऽसिद्धेः / तथा तेषी भवता अस्वसंविदितत्वोपगमात् , ज्ञानान्तरवेद्यत्वे च अनवस्थादिदोषानुषङ्गात् , अज्ञातानाञ्च सत्त्वाऽसंभवादितोऽप्याश्रयासिद्धत्वम् / आत्मनः सर्वथाऽभिन्नानां तु तेषां तत्साधने तद्वत्तस्याप्यत्यन्तोच्छेदप्रसङ्गात् कस्यासौ मोक्षः स्यात् ? कथञ्चित्तदभेदस्तु परैर्नाभ्युपगम्यते अपसिद्धान्तप्रसङ्गात् / तथापि तदभ्युपगमे सर्वथा तदुच्छेदासिद्धिः कथश्चित्तदनुच्छेदस्याप्यवं प्रसिद्धेः / सन्तानत्वञ्च साधनं सामान्यरूपम्, विशेषरूपं वा ? यदि सामान्यरूपम् ; तदा स्वरूपासिद्धो हेतुः; व्यक्तिभ्यः सर्वथा भिन्नस्यास्य सामान्यपरीक्षायां प्रतिक्षिप्त त्वात् / अस्तु वा तद्रूपं तत् ; तथापि परसामान्यरूपम् , अपरसामान्यरूपं वा स्यात् ? 10 प्रथमपक्षे गगनादिनाऽनेकान्तः, अत्यन्तोच्छेदाभावेऽपि अत्र सत्तापरपर्यायस्य सन्तान त्वहेतोः सद्भावात् / अथ अपरसामान्यरूपम् , विशेषगुणाश्रिता हि जातिः सन्तानत्वम् ; तर्हि द्रव्यविशेषे प्रदीपे तस्यासंभवात् साधनविकलो दृष्टान्तः / __ अथ विशेषरूपम् ; तत्रापि उपादानोपादेयभूतबुद्ध्यादिक्षणलक्षणविशेषरूपम् , पूर्वापरसमानजातीयक्षणप्रवाहमात्ररूपं वा ? प्रथमपक्षे सन्तानत्वस्य असाधारणाऽनैका15 न्तिकत्वम् , तल्लक्षणस्यास्य अन्यत्र क्वचिदप्यप्रवृत्तेः / अभ्युपर्गमविरोधश्च, बुद्ध्यादि क्षणानाम् उपादानोपादेयभावस्य यौगैरनभ्युपगमात् , अन्यथा तत्सन्तानस्य अत्यन्तोच्छेदो न स्यात् मुक्तावस्थायामपि पूर्वपूर्वबुद्ध्याद्युपादानक्षणाद् उत्तरोत्तरोपादेयबुद्ध्यादिक्षणोत्पत्तिप्रसङ्गात् / द्वितीयपक्षे तु पीकजपरमाणुरूपादिना अनेकान्तः; तथाविध (1) बुद्धयादिगुणानाम् / तुलना-“तथा बुद्धयादीनां विशेषगुणानां परेण स्वसंविदितत्वेनानभ्यपगमात ज्ञानान्तरग्राह्यत्वे वाऽनवस्थादिदोषप्रसक्तेरवेद्यत्वमित्यज्ञातस्य सत्त्वासिद्धेः पुनरप्याश्रयासिद्धः सन्तानत्वादिति हेतुः ।"-सन्मति० टी० पृ० 156 / प्रमेयक० पृ० 317 / (2) वैशेषिकेण / (3) विशेषगुणवदात्मनोपि / (4) कथञ्चिद्भेदप्रकारेण / (5) "सन्तानत्वं हेतुत्वेनोपादीयमानं यदि सामा यमभिप्रेतं तदा बुद्धयादिविशेषगुणेष प्रदीपे च तेजोद्रव्ये सत्तासामान्यव्यतिरेकेण अपरसामान्यस्यासंभवात् स्वरूपासिद्धः। सत्तासामान्यरूपत्वे वा सन्तानत्वस्य सत्सदिति प्रत्ययहेतुत्वमेव न पुनः सन्तानप्रत्ययहेतुत्वम्"-सन्मति० टी० पृ० 156 / प्रमेयक० पृ० 3171 (6) पृ०२८७। (7) तुलना"किमुपादानोपादेयभावप्रबन्धेन प्रवर्तमानत्वम, कार्यकारणभावप्रबन्धेन प्रवृत्तिः, अपरापरपदार्थोत्पत्तिमात्रं वा ?"-रत्नाकराव० 757 / प्रमेयक० पृ० 317 / "ननु किमिदं सन्तानत्वम्-स्वतन्त्रम, अपरापरपदार्थोत्पत्तिमात्रं वा, एकाश्रयापरापरोत्पत्तिर्वा ?"-स्या० म०प०८३ / "कि कार्यकारणभावेन प्रवृत्तिः, एकाधारापरोत्पत्तिर्वा ?"-न्यायसारटी० पृ० 287 / (8) “सर्वसपक्षविपक्षव्यावत्तिरसाधारणः ।"-तर्कसं० अनु० / “नन्वेवं तस्य तथाभूतस्यान्यत्राननुवृत्तेरसाधारणानकान्तिकत्वम अभ्युपगमविरोधश्च ।"-सन्मति० टी० 10 157 / प्रमेयक० पू० 318 / (9) सपक्षे। (10) तुलना-"पार्थिवपरमाणुरूपादिसन्तानेन व्यभिचारात् ।"-प्रश० कन्द० पृ० 4 / “अनैकान्तिकश्च 1 अशुभानाञ्च ब०। 2 तत्तद्रूपं तथापि ब०। 3 अत्र सत्ताभावेप्यत्र सत्तापर-आ० / 4-णस्यान्यत्र श्र० / 6-गमधर्मविरो-श्र० / 6 उत्तरोपादेयबु-श्र० /

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634