Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 31
________________ नाटयशालानिर्माणम् ] नृ० २० को०- उल्लास १, परीक्षण १ श्रीकुम्भकर्णसङ्गीत -गीतगोविन्दरूपकैः । www. कर्तव्या चित्रिता भित्तिर्विचित्रा चित्रकर्मठैः ॥ नेपथ्यवेश्मनस्तत्र द्वारं पश्चिमतः स्मृतम् । एकमन्यद् रङ्गपीठप्रवेशाय प्रयोजयेत् ॥ पूर्वतो द्वारमेवं स्यात् तत्र द्वारद्वयं शुभम् । नेपथ्यमन्दिरे तत्र रङ्गशीर्ष प्रकल्पयेत् ॥ षदारुकयुतं तस्य विधिरत्र प्रपञ्च्यते । पूर्वद्वारस्य पार्श्वस्यं कर्तव्यं स्तम्भयुग्मकम् ॥ तदवश्चोर्ध्वतश्चापि दारुद्वन्द्वं मनोहरम् । farari कार्यमेतत् षड्दारुकं भवेत् ॥ ब्राह्मणादिचतुः स्तम्भाभ्यन्तराले यदीरितम् । रङ्गपीठं च तत् कार्य नात्युचं नातिनिम्नकम् ॥ समन्तादष्टहस्तं तदादर्शतलसंनिभम् । लिग्धं समतलं स्वच्छं तत्र स्यान्मत्तवारणी ॥ दक्षिणोत्तरपार्श्वस्थस्तम्भयुग्मसमाश्रया । साधारकाष्ठरुचिरा वर्णकैरुपभूषिता ॥ रत्नानि चात्र देयानि वज्रं पूर्वदिशि स्मृतम् । वैदूर्य दक्षिणे पार्श्वे पश्चिमे स्फटिकं तथा ॥ उत्तरे तु प्रवालं स्याद् मध्ये कनकमीरितम् । एवमेतस्य विदुषा कर्तव्योपरिभूमिका ॥ चतुरस्तम्भसमायुक्ता सुवर्णकलशोज्वला । यथा शैलगुहाकारो जायते नाट्यमण्डपः ॥ गम्भीरशब्दवान् मन्दवातायनपरिष्कृतः । निर्वातोऽतिप्रयत्नेन, यस्मादेवं कृते सति ॥ कुतपस्य प्रजायेत गम्भीरध्वनितोचिता । पुरतो रङ्गपीठस्य मध्यपङ्क्तेः सुकोष्ठके ॥ पश्चमे वाथ षष्ठे वा स्थानं कार्य सभापतेः । निवेशनार्थमुत्सेवेनार्धहस्तं तु तत् स्मृतम् ॥ २ नृ० रत्न० ९९ १०० 10 १०१ १०२ १०३ १०४ १०५.२० १०६ 15 १०७ १०८ १०९ 25

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166