Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
10
15
20
25
११२
नृ० ८० को०- उल्लास २, परीक्षण १
एतद्विपर्ययात्प्रत्यालीढं रुद्राधिदैवतम् । संघानीकृतशस्त्रस्य प्रत्यालीढेन मोचनम् ॥ ॥ इति प्रत्यालीढम् ॥ ६॥
*
प्राचां चतुर्णामेतेषां प्रयोगो नाव्यन्नृत्तयोः । नाट्यैकगोचरस्तज्ज्ञैरन्त्ययोः परिदृश्यते । नर्तने स्थानषस्य केचित् पञ्चविधेऽभ्यधुः || ॥ इति षट्पुरुषस्थानकानि ॥
[ स्त्रीस्थानकानि । ]
आयतं स्थानकं तत्तु यत्र तालान्तरे स्थितः । वामयत्रो दक्षिणश्च समो वक्षः समुन्नतम् ॥ प्रसन्नं वदनं हस्तो नितम्बे दक्षिणोऽपरः । समः समुन्नता चात्र कटी पद्माधिदैवतम् ॥ एतदाभाषणे कार्ये सखीप्रियतमादिभिः । कर्तुं समीह (हि) तासु स्यात् कृ ( ? क्ष ) तासु च गतिष्विदम् ॥ रङ्गावतरणारम्भे पुष्पाञ्जलिविसर्प ( ? )ने । आवाहने विसर्गे च तर्जने प्रतिषेधने ॥ मानावलम्बने गर्वे गाम्भीर्येऽमर्षकर्मणि । ईर्ष्याभिलाषप्रभवे स्त्रीणामङ्गुलिमोटने ॥ एतत् स्त्रीस्थानकं कार्यं प्रवेशे पुरुषैरपि । केचनोचुः' स्त्रीभिरेव पूर्वरङ्गे प्रयुज्यते ॥ प्रविष्टेष्वपि पात्रेषु त्वभिनेयानभि (१ ति) क्रमात् । एतत् स्थानं प्रयोक्तव्यमिति केचन मन्वते ॥
इदं स्थानं प्रयुज्याथ रङ्गावतरणादयः । कर्तव्या हस्तपादादिप्रचारे रुचिरैर्युताः ॥
॥ इत्यायतम् ॥ १ ॥
*
[ स्त्रीस्थानकानि
एतत्पादविपर्यासादवहित्थं प्रकीर्तितम् । दुर्गाधिदैवतं चैतदवहित्थस्य सूचकम् ॥ स्वाभाविके च संलापे तुष्टौ चिन्ताविचारयोः ।
1 ABO केचनोयू ।
३५
३६
३७
३८
३९
४०
४१
४२
४३
४४
४५

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166