Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 160
________________ नृ०० को०-उल्लास २, परीक्षण ४ [मण्डललगानम् एवं प्रकीर्तिताश्चार्यः पञ्चविंशतिः संख्यया। एवमन्याश्च विज्ञेयाश्चार्योऽप्यूह्या मनीषिभिः॥ ३७ इति प्रसङ्गान्मुडुपसंबकाचार्यों दर्शिताः । प्रकृतमनुसरामः॥ 10 द्वितीयोल्लासे चतुर्थ परीक्षणम्। यन्मण्डलं भूर्भुवः स्वः प्रकाशाय प्रवर्तते । वरेण्यं सवितुस्तन्मे व्याधिनाशाय कल्पताम् ॥ [मण्डललक्षणम् ।] लक्ष्मप्रकरणे पूर्व मण्डलं लक्षितं मया। .. तढ़ेदानधुना वच्मि भ्रमरास्कन्दिते ततः॥ आवर्त 'शकटास्याख्यं तथा चैवाडितं परम् ।। समोत्सरितमध्यर्धमेलकाक्रीडितं ततः॥ पृष्ठकुटुं चाषगतं भौमानीति दश क्रमात् । अतिक्रान्तं दण्डपादं क्रान्तं ललितसञ्चरम् ॥ सूचीविद्धं वामविद्धं विचित्रं विहृतं ततः। अलातं ललितं चेति दशाकाशभवानि च ॥ भौमाकाशिकचारीणां कार्यत्वान्मण्डलान्यपि । कारणानुगुणत्वेन भौमान्याकाशिकान्यपि ॥ प्रायेणैषां नियोगस्तु विज्ञेयः शस्त्रमोक्षणे । युद्धे चाकाशिकानां तु प्राधान्यं मुनयोऽववन् ॥ [भौममण्डलानि ।] चारीविवक्षया ज्ञेयश्चरणोऽत्र विजानतः। न न्यूनाधिकता दुष्या मण्डले चारिकागता॥ दक्षिणे जनितां कुर्याद् वामेऽथ स्पन्दितां तथा। दक्षिणे शकटास्यां च वामेऽपस्पन्दितां तथा ॥ दक्षिणे भ्रमरी वामे स्पन्दितामितरे पुनः । शकटास्यां चाषगति वामे भ्रमरिकां तथा। दक्षिणे स्पन्दितां वामे विदध्याद्रमरे बुधः॥ ॥इति भ्रमरम् ॥१॥ 20 25 1 See appendix I for the text of Kalānidhi. 2 ABO PETTET I

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166