Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
नृ० ८० को०- उल्लास २, परीक्षण
भुजङ्गत्रासितो वामोऽतिक्रान्तो विहृताभिषे ॥ ॥ इति विहृतम् ॥ ८ ॥
अलातम् ]
*
सूचीं च भ्रमरीं वामे क्रमात्पादे तु दक्षिणे' । ] 'मुजङ्गत्रासितः पश्चादलातो दक्षिणेतरः ॥ आवृत्तिभिः सप्तभिर्वा षङ्गिर्वा क्रमतस्त्विमाः । चारीः कृत्वा चतुर्दिक्षु भ्रान्त्वा मण्डलबहुतम् ॥ अपक्रान्ता दक्षिणे तु वामे तु चरणे पुनः । अतिक्रान्ता भ्रमरिके ललितैश्चरणक्रमैः । कुर्यादलातं तं प्राहुर्मण्डलं चित्रमण्डलम् ॥
॥ इत्यलातम् ॥ ९ ॥
*
दक्षिणश्चरणः सूचीं वामोऽपक्रान्ततां भजेत् । पार्श्वक्रान्तीभवन् दक्षो भुजङ्गत्रासितो भवेत् ॥ अतिक्रान्तां चरेद्वाम आक्षिप्तो दक्षिणो भवेत् । वामक्रमादतिक्रान्तोरुद्वृत्तालातकी भवेत् ॥ पार्श्वकान्तो दक्षिणस्तु सूचीवामोऽथ दक्षिणः । अपक्रान्तो वामपादस्त्व [तिक्रान्तो ] भवेद्यदा । तदुक्तं ललितं यत्र संचरेल्ललितं नटः ॥
॥ इति ललितम् ॥ १० ॥
*
॥ इति दशाकाशिक मण्डलानि ॥ ॥ इति मण्डललक्षणम् ॥
*
१४३
५५
18
५७
५८
५९
६०.
10
15
६१/
] are verses no-1198-99
1 Verses between this bracket[ (a) taken from S. R. Ad. 7. as they are missing in our mss. 2 BO वामोप्यदक्षिणः ।
20
विचित्रैर्विहृतैर्येनातिक्रान्तं वैरिमण्डलम् उल्लासितं जगद्येन पादैर्ललितसञ्चरैः । एकलिङ्गप्रसादेन मण्डले यस्य नित्यशः नेतयस्तेन राज्ञेदं कृतं मण्डललक्षणम् ॥
६२
इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवाम्भो- 25 विमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजेयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलन परिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण
नागपुरोद्भूतप्रचण्डपवनेन

Page Navigation
1 ... 163 164 165 166