Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 150
________________ १२८ नृ० र० को०-उल्लास २, परीक्षण ३ [ऊरुताडिता पाणिरेकपदे स्थाने स्थितो भूम्याक्षिणात्र चेत्। . ऊरु ताडयति प्रोक्ता तदोरुताडिता बुधैः ॥ ॥ इत्यूरुताडिता ॥११॥ पार्धाभ्यां यत्र चरणावूरूस्थखस्तिकाकृती। क्षितिसंघर्षतश्चारीमूरूवेणी तदादिशेत् ॥ ॥ इत्यूरूवेणी ॥ १२ ॥ पादावग्रेऽङ्गुली पृष्ठभागेन सरतो द्रुतम् । पुरतश्चेत्तदा चारी तलोद्वृत्तेति संमता ॥ ॥ इति तलोद्वत्ता ॥१३॥ तलेऽङ्गयोः स्वस्तिकीकृत्य कुञ्चिते वलितान्तके। उत्लुत्य निपतेतां चेद्धरिणत्रासिका तदा ॥ ॥ इति हरिणत्रासिका ॥ १४॥ | पादौ यदा पहिर्नीती भूमिघर्षणतः शनैः । आवर्तेते तदा प्राहुरर्धमण्डलिकां बुधाः॥ ॥ इत्यर्धमण्डलिका ॥ १५॥ तिर्यञ्च पादमाकुश्य यत्र तं प्रक्षिपेन्मुहुः। सा तिर्यक्कुञ्चिता चारी गदिता नृत्यकोविदैः॥ ॥ इति तिर्यक्कुञ्चिता ॥ १६॥ मत्तवद्यत्र चरणावितश्चेतश्च विह्वलौ । 20 स्थाप्येते यत्र तामाहुश्वारीमेतां मदालसाम् ॥ ॥ इति मदालसा ॥ १७ ॥ यदान्येनांहिणाऽन्योऽह्निरुत्क्षिप्योत्क्षिप्य कुञ्चितः। युज्यते तिर्यगन्यस्तु सर्पेत् सञ्चारिता तदा ॥ ॥इति सञ्चारिता ॥१८॥ 25 एकैकमग्रतः पादौ न्यस्येदुत्क्षिप्य कुश्चितौ । 1 ABo आवयेते. of. बहिर्नीतावावर्तेते । सं. र. अ. ७. श्लो. ९८५.

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166