Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
१३२
10
15
20
25
० २० को०- उल्लास २, परीक्षण ३
एकमन्येन पादेन वेष्टयेद्वेष्टनं तदा । तदेव चलनं प्राहुर्नृत्यवर्गणकर्मठाः ॥ ॥ इति वेष्टनम् ॥ १२ ॥
*
उद्वेष्टनं वेष्टयित्वा पृष्ठतोऽह प्रसारिते ॥ ॥ इत्युद्वेष्टनम् ॥ १३ ॥
*
पादमाकुञ्चितं पृष्ठे पुरतो वा क्षिपेयदि । जानुपर्यन्तमुत्क्षेपस्तदा चारी प्रकीर्तिता ॥ ॥ इत्युत्क्षेपः ॥ १४ ॥
*
पृष्ठतोऽस्मिन् प्रयुक्ते च पृष्ठोत्क्षेपो भवेदयम् ॥ ॥ इति पृष्टोत्क्षेपः ॥ १५ ॥
*
यस्यां विन्यस्य चरणं क्षितौ पार्श्वे नतं पुनः । प्रसारयति तीक्ष्णाग्रं सा सूची गंदिता बुधैः ॥ ॥ इति सूची ॥ १६ ॥ चरणौ स्वस्तिकीकृत्यैकं किञ्चिद्दोलयेत् पुरः । कुञ्चितं चरणं यत्र सा विद्धा परिकीर्तिता ॥ ॥ इति विद्धा ॥ १७ ॥
*
·
उद्वृत्तचरणो मूर्तिर्ललिता बलिता भवेत् । यत्र तत् प्रावृतं ज्ञेयं कामकेलिविवर्धनम् ॥ ॥ इति प्रावृतम् ॥ १८ ॥
*
क्रमेणोल्लालयेयत्र चरणौ गगने नटः । उल्लालः स तु विज्ञेयश्चारिकामूर्धसु स्थितः ॥
॥ इत्युल्लालः ॥ १९ ॥
*
[ वेष्टनम्
५३
५४
५६
इत्येकोनविंशतिराकाशचार्यः । इत्युभय्यश्चतुःपञ्चाशद्देशीचार्यः ॥ इति षडशीतिर्मागदेशीचार्यः ।
देशे देशेषु यत्कीर्तिरमला सर्वसङ्गिनी । विचरत्यत्र तेनेयं चारपद्धतिरीरिता ॥
इति श्रीराजाधिराजकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्यां संगीतमीमांसायां नृत्यरत्नकोशे चारिकोल्लासे देशीचारीलक्षणं नाम तृतीयं परीक्षणं [ समाप्तम् ] ।
५७
५८
५९
६०
६१

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166