Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 153
________________ विक्षेपा] नृ० र० को०-उल्लास २, परीक्षण ३ मुहुः प्रसार्य चरणमग्रतो गगनाङ्गणे। आकुञ्चयेत्तदा प्रोक्ता विक्षेपा नाम चारिका ॥ ॥इति विक्षेपा ॥३॥ निपतेतां समुत्क्षिप्य यत्राही संहतो भुवि । हरिणीव तदा चारी विज्ञेया हरिणप्लुता॥ ॥ इति हरिणप्लुता ॥४॥ ऊरुपृष्ठं स्पृशेदंहिर्षा पार्श्वेन यात्यथ । अन्यो नितम्ब निकटमपक्षेपा तदा स्मृता ॥ ॥ इत्यपक्षेपा ॥५॥ कुश्तिश्चरणो यत्र वामतो दक्षतो अमेत् । डमरी स्यात्तदा, - ॥ इति डमरी ॥६॥ दण्डपादाचारी तदोदिता। पादौ स्वस्तिकमावर्त्य तिर्यगूज़ यदोक्षिपेत् ॥ ॥ इति दण्डपादा ॥ ७॥ यत्र विस्तारितावही लुतं कृत्वा परस्परम् । गगने ताडयेत्तां चेत् तलेनाबाधिताडिता ॥ ... ॥ इत्यक्रिताडिता ॥८॥ ईषवाकुश्चितं पादमन्यपादेन लल्येत् । गगने चेत्तदा प्रोक्ता जङ्घा लकुनिका बुधैः॥ ॥ इति जबालकनिका ॥९॥ अङ्गिणा लख्यतेऽन्येन चरणः पृष्ठतो गतः। तवालाता विनिर्दिष्टा चारीनर्तनकोविदः॥ . ॥ इत्यलाता ॥ १० ॥ बहिर्धमणस्य चरणस्याङ्ग्रेरन्तभ्रमस्य च । तलं क्रमाजानुपार्वे जानुपृष्ठे च निःक्षिपेत् । जहावर्ता तदा प्रोक्ता चारीनर्तनचचना ॥ ॥ इति जवावर्ता ॥११॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166