Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
क्रान्तादीनि ] नृ० २० को० -उल्लास २, परीक्षण १
चिबुकक्षेत्र हस्तौ क्रान्तमेतदुदीरितम् । शोके ग्लाने निर्जिते च विगृहीते नियुज्यते ॥ ॥ इति क्रान्तम् ॥ ३ ॥
नेत्रे निमीलिते पादौ यत्र विस्तारिताञ्चितौ । भुजौ विस्तारितावूर्वोर्विष्कम्भतमिदं मतम् । भटा (द्रा)सने त्वनावृष्टे (?) नियुक्तं ध्यानयोगयोः ॥ ॥ इति विष्कम्भतम् ॥ ४ ॥
*
समौ पादावासनं च सममस्पृष्टभूतलम् । स्थानं तदुत्कटं योगध्यानसंध्याजपादिषु ॥ ॥ इत्युत्कटम् ॥ ५ ॥
*
शरीरमलसं नेत्रे मन्थराकारधारिणी । हस्तौ स्रस्तौ विमुक्तौ च तदा स्रस्तालसं मतम् । व्याधिमूर्च्छामदग्लानिहानि भीतिषु तन्मतम् ॥ ॥ इति स्रस्तालसम् ॥ ६॥
*
जानुनी भूमिसंस्थे चेत् स्थानं जानुगतं तदा । होमे देवार्चने दीनयाचने मृगदर्शने । क्रुद्धप्रसादने चैतत् कुसत्त्वत्रासने तथा ॥
॥ इति जानुगतम् ॥ ७ ॥
*
मुक्तजानूत्कटस्यैव जान्वेकं भूमिपृष्ठगम् । हवने सान्त्वने चैव सज्जने साधुकर्तृके । प्रसादने मानिनीनां विनियुक्तं महर्षिभिः ॥ ॥ इति मुक्तजानु ॥ ८ ॥
भूमिपातो विमुक्तं स्याद्धानि ( १ व ) क्रन्दादिषु स्मृतम् ॥ ॥ इति विमुक्तकम् ॥ ९ ॥ ॥ इति नवोपविष्टस्थानानि ॥
*
११७
७९
८०
८१
८२
८३
८४
८५
1 ABO विष्कुम्भितम् | but see verse 10 and the footnote. 2 ABO धान्य । of योगे ध्याने भवेदेतत् स्वभावेन यदासने । सं, र, अ. ७ श्लो. ११००.
5
10
15
20
25

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166