Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 39
________________ दियुकमासारितम् ] नृ० २० को०- उल्लास १, परीक्षण १ वन्दनानि प्रकुर्वन्ति पुनश्च परिवर्तनात् । उपोहनार्थाभिनयमङ्गहारैः प्रयुज्य ताः ॥ पिण्डं बघ्नन्ति तत्रस्थाः कनिष्ठासारिताश्रयम् उपोहनं पञ्चकलं सूचया भावयन्ति ताः ॥ वैशाखरेचितेनासामेका भूत्वा पृथक् ततः । अभिनीयोपोहनार्थ दर्शयेच्च तदेतराः ॥ पर्यस्तकायङ्गहारैः प्रनृत्येयुस्ततस्तु ताः । पिण्डीबन्धं समास्थाय भावयन्त्यङ्कुरेण तु ॥ प्रथमोपोहनस्यार्थं परिवर्त्य पुनश्च ताः । वैशाखरेचितं कृत्वा करणं रङ्गपीठके ॥ विकीर्य पुष्पनिचयं कुर्युर्वस्तु विभावनम् । ताभ्य एका' विनिश्चित्य प्रथमं वस्तु भावयेत् ॥ तदेव चारु चातुर्याद् दर्शयेनृत्यतः पुनः । ततः पिण्डीगताः सर्वाः पिण्डीबन्धमुपागताः ॥ सूचया षट्कलं कुर्युर्द्वितीयोपोहनं पुनः । तस्यैवं करणं ज्ञेयं तदर्थस्य विभावनम् ॥ अपसृत्य द्वितीयाथ ताभ्यो वस्तु द्वितीयकम् । 'चचत्पुटेन तालेनाभिनयेत् प्रथमा तदा ॥ नृत्येवङ्गहारेण चतस्रो मिलिताः पुनः । विषाय शृङ्खलाबन्धं द्वितीयस्यात्र वस्तुनः ॥ अङ्कुरेण पुनः कुर्युरुपोहनमथैकिका । ताभ्यो निःसृत्याभिनयेद् द्वितीयं वस्तु तत्परम् ॥ प्रदर्शयन्त्यह' हरिस्तदर्थं मिलिता अथ । पिण्डीबन्धं समास्थाय समं कुर्युरुपोहनम् ॥ एवं तृतीयाऽभिनये तृतीयं वस्तु रङ्गगा । षट् पितापुत्रकेण द्वे कुर्यातामङ्गहारतः ॥ नर्तक्यो 'मिलिताः पश्चाल्लताबन्धमुपाश्रिताः । अङ्कुरेण पुनः कुर्युरुपोहनमथ स्फुटम् ॥ 1.4 कुयुर्कुयु । 2 ABC एक । 5 ABC यत्यङ्ग । 6 ABO मिमिलाः । ३ मु० रन० 3 ABC षट्फलं । १८० १८१ १८२ १८३ १८४ 10 १८५ १८६ १८७ b १९० १९१ १८८ १८९ २० 15 १९३ 4 ABC चचत् । 25 १९२ :

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166