________________
दियुकमासारितम् ] नृ० २० को०- उल्लास १, परीक्षण १
वन्दनानि प्रकुर्वन्ति पुनश्च परिवर्तनात् । उपोहनार्थाभिनयमङ्गहारैः प्रयुज्य ताः ॥ पिण्डं बघ्नन्ति तत्रस्थाः कनिष्ठासारिताश्रयम् उपोहनं पञ्चकलं सूचया भावयन्ति ताः ॥ वैशाखरेचितेनासामेका भूत्वा पृथक् ततः । अभिनीयोपोहनार्थ दर्शयेच्च तदेतराः ॥ पर्यस्तकायङ्गहारैः प्रनृत्येयुस्ततस्तु ताः । पिण्डीबन्धं समास्थाय भावयन्त्यङ्कुरेण तु ॥ प्रथमोपोहनस्यार्थं परिवर्त्य पुनश्च ताः । वैशाखरेचितं कृत्वा करणं रङ्गपीठके ॥ विकीर्य पुष्पनिचयं कुर्युर्वस्तु विभावनम् । ताभ्य एका' विनिश्चित्य प्रथमं वस्तु भावयेत् ॥ तदेव चारु चातुर्याद् दर्शयेनृत्यतः पुनः । ततः पिण्डीगताः सर्वाः पिण्डीबन्धमुपागताः ॥ सूचया षट्कलं कुर्युर्द्वितीयोपोहनं पुनः । तस्यैवं करणं ज्ञेयं तदर्थस्य विभावनम् ॥ अपसृत्य द्वितीयाथ ताभ्यो वस्तु द्वितीयकम् । 'चचत्पुटेन तालेनाभिनयेत् प्रथमा तदा ॥ नृत्येवङ्गहारेण चतस्रो मिलिताः पुनः । विषाय शृङ्खलाबन्धं द्वितीयस्यात्र वस्तुनः ॥ अङ्कुरेण पुनः कुर्युरुपोहनमथैकिका । ताभ्यो निःसृत्याभिनयेद् द्वितीयं वस्तु तत्परम् ॥ प्रदर्शयन्त्यह' हरिस्तदर्थं मिलिता अथ । पिण्डीबन्धं समास्थाय समं कुर्युरुपोहनम् ॥ एवं तृतीयाऽभिनये तृतीयं वस्तु रङ्गगा । षट् पितापुत्रकेण द्वे कुर्यातामङ्गहारतः ॥ नर्तक्यो 'मिलिताः पश्चाल्लताबन्धमुपाश्रिताः । अङ्कुरेण पुनः कुर्युरुपोहनमथ स्फुटम् ॥
1.4 कुयुर्कुयु । 2 ABC एक । 5 ABC यत्यङ्ग । 6 ABO मिमिलाः । ३ मु० रन०
3 ABC षट्फलं ।
१८०
१८१
१८२
१८३
१८४ 10
१८५
१८६
१८७
b
१९०
१९१
१८८
१८९ २०
15
१९३
4 ABC चचत् ।
25
१९२ :