________________
०र० को०-उल्लास १, परीक्षण १ [सारित
[आसारितम्] तालो मृगस्तत्री च कचिदेकैकशः कचित् । युग्मीभूय प्रधानं स्याद् गुणः सर्वव्यपेक्षया । षड् सुवाः क्रमतोऽत्र स्युः 'प्राधान्ये त्रितयस्य तु ॥ १६८ अथासारितमत्र स्यान्मार्गासारितपूर्वकम् । आपूर्वात सरतेर्धातो रूपे पाताः पुरोदिताः॥ 'आसार्यन्त इति प्रोक्ता बुधैरासारिताभिधाः। एतस्योदाहृतिः पूर्वमुक्ता लक्षणपूर्विका ॥
॥ इत्यासारितम् ॥
[पाठवृद्धियुक्तियुक्तमासारितम् । ]] 'यान्यवोचमहं पूर्व गीतकानि चतुर्दश। वर्धमानादिकं चैव सर्वमत्रैव योजयेत् ॥ उपक्रमे गीतकानां प्रयोगसूचनादिभिः। उपोयन्ते खरा यस्मात् तस्मादुक्तमुपोहनम् ॥ . तदुक्तं पूर्वमस्माभिश्चतस्रः कण्डिका अपि। विशालासंगते तत्र कनिष्ठासारितोद्भवे ॥ मध्यमासारिताजाता विशाला संगता तथा। सुनन्देति च तिस्रोऽपि ज्येष्ठासारितसंभवाः॥ सुमुखी च सुनन्दा च संगता च विशालिका । उक्तपाते क्रमैरेतैरासारितविधिक्रमात् ॥
. १७५ पिण्डीबन्धाः प्रदर्श्यन्ते वर्धमानक्रमेण च । ते चेष्ट देवतारूपा इष्टचित्राश्रिता अथ ॥ विलम्बितलयेऽभीष्टमान आसारितस्य तु । कलाकलापसंयुक्तोपोहनस्यार्थभागिकाः ॥ समाश्चतस्रश्चतुरा नर्तक्यः पुष्पपाणयः। अन्तर्धानमपाकृत्यालकुयूँ रङ्गभूमिकाम् ॥
१७८ तत्रावकीर्य पुष्पाणि नमस्कुर्युः क्रमेण ताः ।
इन्द्रादिलोकपालेभ्यः परिवर्त्य चतुर्दिशम् ॥ -: TAB प्रधान्ये। 2 ABO आचार्यन्त। 8 ABO यान्येवो । 4 BG. देवाता 5 B0 पुष्पपुष्पपाणयः।