________________
मुं० २० को०-उल्लास १, परीक्षण १ [पाठवृद्धियुक्तमासारितम् अन्योन्यं मिलिताः प्राग्वत् तृतीया प्रथमान्विता।। तृतीयं वस्त्वभिनयेनृत्यं कुर्यादू द्वितीयिका ॥ ततः सङ्गत्य पिण्डीस्थाः कुर्युस्तुर्यमुपोहनम् । सूचयाष्टकलं पश्चादपसृत्य चतुर्थिका ॥ चतुर्थ वस्त्वभिनयेदङ्गहारं ततः परा। कुर्वीरन मिलितास्तिस्रश्चतस्रोऽपि ततः परम् ॥ अङ्करेण चतुर्थस्य वस्तुनो भेद्यकाभिधम्। बन्धमास्थाय कुरिनुपोहनमतः परम् ॥ विश्लिष्यान्योन्यमाद्याभ्यां द्वाभ्यां साकं तृतीयया । अङ्गहारैरभिनयेचतुर्थी वस्तु तुर्यकम् ॥ अथ सर्वासु नर्तक्यः पिण्डीबन्धमुपाश्रिताः। चतुर्थोपोहनं कुर्युरपमृत्य तृतीयिका ॥ . तृतीयं वस्त्वभिनयेत् तिस्रो नृत्यन्ति तत्पराः। लताबन्धमथास्थाय कुयुः पूर्वमुपोहनम् ॥ प्रथमं वस्त्वभिनयेत् प्रथमाऽपश्रिता ततः। तदेतराः प्रनृत्यन्ति मिलिताः पुनरेव ताः॥ कुसुमाञ्जलिमाकीर्य चतस्रोऽपि तदा समम् । अङ्गहारैः प्रनृत्याथो भवन्त्यपश्रितास्तु ताः॥ पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धश्चतुर्थेऽपि तल्लक्षणमथोच्यते ॥ स चेष्टदेवता'रूपोऽनुकारेण स्मृतो बुधैः। तस्य देहानुकारेण विधेया च विपश्चिता ॥ पिण्डाकारेण विज्ञेयः पिण्डीबन्धस्तदा पुनः। शृङ्खलात्मा भवेद् गुल्मो लता जालखरूपिणी ॥ 'संदंशो भेद्यको रूपं चतुर्थमिदमीरितम् । सूचा स्यात् पिण्डिकाबन्धादड्डुरैः शृङ्खलादिभिः॥ उभयं स्मृतमारोहेऽवरोहेऽङ्कुर ईरितः। यस्मिन्नासारित पूर्यदीरितमुपोहनम् ॥ ----२०७ 1 ABG °तारुनुकारेण । 2 ABO चा। 8 0 संघशो।
.