Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 53
________________ साविकमान परीक्षा ] नृ० १० को०- उल्लास १, परीक्षण १ तस्मादनन्यमनसो जायन्ते ते नु साविक स्तम्भादीनां न चैवं स्यात् समाधानं तु मानसम् ॥ हेतुः समानकालीनोऽष्टको दयनिमित्ततः । तद्वाष्पं जनयेयुर्ये नटबुद्धयवसायकाः ॥ ते स्युर्नटगतानां तु बाह्यषाष्पादिहेतवः । एवं ते सात्त्विकाः सत्त्वेनाहताः संसदि स्फुटम् ॥ वाक्यगाथादिभिर्गम्या नैवमवघटेत हि । एवं ते ह्यभिनीयेरन्नट (? टा) नेत्रजलादिभिः ॥ नैवं नटानामन्योन्यं प्रसिद्धा एव तेन तत् । यतोऽस्यैवं प्रसिद्धाभिधानेऽस्य क्वचित् तत्कृतेः ॥ शिष्यानौपयिका तत्र किं फलं वद तत्त्ववित् । नैवं तथाविधे बुद्धयवसायेऽष्टकस्य तु ॥ मानसैकाग्र्यहेतुत्वे यौगपद्योदयाप्तितः । बाह्यबाष्पाष्टकस्यास्य यौगपद्यादयोऽपि च । तत्र सामग्र्यन्तरं चेत् किमवान्तरकल्पनैः ॥ सुलयमनुसरामि स्थानकं स्वीकरोमि स्फुरितमनुभवामि स्थायिरूपं सलीलम् । परमिह रचयामि प्रीतिदृष्टिं च कान्ताम् X ३५७ ३५८ ३५९ ३६० ३६१ 10 ३६२ ३६३15 ध्रुवमुपरि नयाम्युत्फुल्ल विस्फारतारम् ॥ इत्यादयोऽध्यवसाया गण्या नटगता न हि । अन्तर्भावो न सर्वेषामुक्तेष्वेवावकल्पते ॥ न चातिव्यग्रमनसा तारकाया विलोलनम् । शक्यक्रियां (? यं) न वा योग्याभ्यासशिक्षात्र कारणम् ॥ ३६६ स्तम्भादावपि सा तुल्ययोगक्षेमात्र दृश्यते । एकाग्र्यबुद्धयवसायशून्ये नाव्ये नटेन च ॥ किञ्चिदप्यधुना कर्तुमशक्यं विद्यते कचित् । नटस्याध्यवसायानां लौकिकेनानुकारिणा ॥ निर्वेदादिभाववर्गगणने किं फलं वद । बायोsपि दृश्यते स्तम्भो भयहर्षादिकैरपि ॥ व्यजनग्रहणाचापि खेदाभिनयने कचित । मन्दसत्वे नटेकीदितापात् खेदः प्रतीयते ॥ ३६७25 1 ABO कादयनिमित्ततः । 2 ABC जनयेयं । 3 ABO कचितत् । ३६४ ३६५ 5 ३६८ ३६९ ३७० 20 30

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166