________________
नाटयशालानिर्माणम् ] नृ० २० को०- उल्लास १, परीक्षण १ श्रीकुम्भकर्णसङ्गीत -गीतगोविन्दरूपकैः ।
www.
कर्तव्या चित्रिता भित्तिर्विचित्रा चित्रकर्मठैः ॥ नेपथ्यवेश्मनस्तत्र द्वारं पश्चिमतः स्मृतम् । एकमन्यद् रङ्गपीठप्रवेशाय प्रयोजयेत् ॥ पूर्वतो द्वारमेवं स्यात् तत्र द्वारद्वयं शुभम् । नेपथ्यमन्दिरे तत्र रङ्गशीर्ष प्रकल्पयेत् ॥ षदारुकयुतं तस्य विधिरत्र प्रपञ्च्यते । पूर्वद्वारस्य पार्श्वस्यं कर्तव्यं स्तम्भयुग्मकम् ॥ तदवश्चोर्ध्वतश्चापि दारुद्वन्द्वं मनोहरम् । farari कार्यमेतत् षड्दारुकं भवेत् ॥ ब्राह्मणादिचतुः स्तम्भाभ्यन्तराले यदीरितम् । रङ्गपीठं च तत् कार्य नात्युचं नातिनिम्नकम् ॥ समन्तादष्टहस्तं तदादर्शतलसंनिभम् । लिग्धं समतलं स्वच्छं तत्र स्यान्मत्तवारणी ॥
दक्षिणोत्तरपार्श्वस्थस्तम्भयुग्मसमाश्रया । साधारकाष्ठरुचिरा वर्णकैरुपभूषिता ॥
रत्नानि चात्र देयानि वज्रं पूर्वदिशि स्मृतम् । वैदूर्य दक्षिणे पार्श्वे पश्चिमे स्फटिकं तथा ॥ उत्तरे तु प्रवालं स्याद् मध्ये कनकमीरितम् । एवमेतस्य विदुषा कर्तव्योपरिभूमिका ॥ चतुरस्तम्भसमायुक्ता सुवर्णकलशोज्वला । यथा शैलगुहाकारो जायते नाट्यमण्डपः ॥ गम्भीरशब्दवान् मन्दवातायनपरिष्कृतः । निर्वातोऽतिप्रयत्नेन, यस्मादेवं कृते सति ॥ कुतपस्य प्रजायेत गम्भीरध्वनितोचिता । पुरतो रङ्गपीठस्य मध्यपङ्क्तेः सुकोष्ठके ॥ पश्चमे वाथ षष्ठे वा स्थानं कार्य सभापतेः । निवेशनार्थमुत्सेवेनार्धहस्तं तु तत् स्मृतम् ॥
२ नृ० रत्न०
९९
१०० 10
१०१
१०२
१०३
१०४
१०५.२०
१०६
15
१०७
१०८
१०९
25