Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः।
[विशतिः २ लेहवत् तद् घनीभूतं पिच्छलं वज्रलेपयेत् । द्विपानां तलबन्धार्थ कल्पयेत् मुविचक्षणः ॥ ६७४ ॥
इति गनचिकित्सा ॥ पर्णिका मुद्गपर्णी माषपर्णी। उग्रगन्धा वचा-रसोनौ । रसपश्चकः। पूतिद्वयं कृष्णा पिप्पली । वासा आटरूषकः । ग्रन्धिकं पिप्पलीमूलम् । कट्फलं काश्मयम् । सौराष्ट्रिका तुवग्मृत्तिका । त्रिवृतं त्रिस्नेहम् । श्रीवेष्टः सरलद्रुमनिर्यासः ।। ६७७ ॥
इति गजौषधिनिघण्टुः । मुख्यं दन्तिवलं राज्ञां समरे विजयैषिणाम् । तस्मानिनबले कार्या बहवो द्विरदा नृपैः ॥ ६७८ ॥ उपचारान् प्रकुर्वीत दानार्थ करिणां नृपः । अनेकायुधसङ्कीर्णाः पताकाध्वजराजिताः । चतुर्भिस्तुरगैर्युक्ता दृढाः सारथिनोदिताः ॥ ६७९ ॥ महारथैः समाक्रान्ता बहवः स्यन्दना नृपैः । चतुरङ्गे बले कार्या रणे विजयकाक्षिभिः ॥ ६८० ॥ खाचर्मधराः केचिदन्ये स्युः कुन्तपाणयः । सेल्लचक्रधराः केचित् केचिन्मुद्रपाणयः ॥ ६८१ ॥ धनुर्धरास्तथा केचित् केचित् परशुपाणयः । शक्तिशूलधराः केचित् केचिच्च क्षुरिकाधराः ॥ ६८२ ॥ यन्त्रमुक्तायुधाः केचित् केचिन्मुक्तायुधास्तथा । अमुक्तायुधहस्ताश्च मुक्तायुधकरास्तथा ॥ ६८३ ॥ ईदृक् चतुर्बलं विद्वान् युद्धाय विजितश्रमः । . कुर्यादतन्द्रितो राजा शत्रुसंहरणोद्यतः ॥ ६८४ ।।
इति बलाध्यापः ॥ ६ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176