Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
१२४
मानसोल्लासः ।
[विंशतिः २ मैत्रादिकचतुष्कं तु निर्गच्छन् पश्चिमे लिखेत् । उत्तरादित्रयं तद्वत् कोणाद् वायोर्दिशं लिखेत् ।। १०५२॥ धनिष्ठादिचतुष्कं तु पुनरुत्तरनिर्गतम् । रेवत्यादित्रयं लेख्यं नक्षत्राणामयं विधिः ॥ १०५३ ॥ अन्तःस्थचतुरस्रा ये रेखाया मध्यतः स्थिताः। स्तम्भताराः समाख्याता ज्योतिर्विद्याविशारदः ॥ १०५४ तस्य बाह्यस्थितास्तारा अष्टौ प्राकारसङ्गताः । ततो बाबस्थिताश्चान्यास्तारा वायाः प्रकीर्तिताः ॥ १०५५ स्तम्भपाकारवर्तीनि नक्षत्राण्यपराणि हि। इतराणि विजानीयाद् बाह्यानीति विचक्षणः ॥ १०५६ ॥ अन्तःस्थिते आहे पापे कोटनाशं प्रपद्यते । शुभग्रहे च बायस्थे बहिःस्थानां जयो भवेत् ॥ १०५७ ॥ यस्यां दिशि भवेश्चन्द्रस्तस्यां खण्डी विनिष्पतेत् । खण्डीस्थानं परिज्ञाय तत्र कुर्वीत सङ्गरम् ॥ १०५८ ।। परिखासंस्थितं तोयं खनित्वा परिवाहयेत् । सेतुं वा कारयेत् तत्र पूरयेद् वा मृदादिभिः ॥ १०५९ ।। यद्यगाधं महत् तोयं तरेद् वा तन्नवादिभिः(?) । एवमुत्तार्य सैन्यानि दुर्ग वारिमयं जयेत् ॥ १०६० ॥ दुरारोहं तु गिरिज दुर्गमावेष्टय सेनया । अप्रवेशात् तु धान्यानां दुर्गस्थानामनिर्गमात् ।। १०६१ ॥ अमक्षयाभिरोषाच निबन्धाद् भेदतोऽपि च । एवंविधैरुपायैश्च गिरिदुर्ग जयेनृपः ॥ १०६२ ॥ पाषाणरिष्टकाभिर्वा मृदा वा निर्मितं च गत् । तद् दुर्ग यन्त्रपाषाणैः खननैश्च निपातयेत् ॥ १०६३ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176