Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 157
________________ अध्यायः २.] मानसोल्लासः। १२७ रेखाः पडूलका कार्यास्तिर्यगष्टौ च राजयः । पञ्चत्रिंशद् भवन्त्येवं कोष्ठास्तत्सभिवेशतः ॥ १०८७॥ तत्रादिपञ्चकोष्ठेषु पञ्चमात्रास्वरान् क्रमात् । लिखेद् वर्णानधस्तेषां कादीन् अणवर्जितान् ॥ १०८८ ॥ अकारपको ये वर्णा अधोऽधः संव्यवस्थिताः । अकारसमधर्माणः सर्वे वर्णाः स्वराश्च ते ॥ १०८९ ॥ इकारादिस्वरेष्वेवमधस्ताद् ये व्यवस्थिताः । तत्तद्धर्माण एव स्युस्ते वर्णाः स्वरसंहिताः ॥ १०९० ॥ नामादौ यो भवेद् वर्णः स स्वरः परिकीर्तितः । संयोगे प्रथमो ग्राह्यः स्वराणां नियमो न हि ॥ १०९१ ॥ मात्रास्वराः समाख्यातास्तथा वर्णस्वरा मया । ग्रहस्वरा निरूप्यन्ते साम्प्रतं राशिभेदतः ।। १०९२ ॥ मेषवृश्चिकसिंहानामकारः स्याद् ग्रहस्वरः । एवं ग्रहस्वराः प्रोक्ताः कथ्यन्ते जीवसंहिताः ॥ १०९३ ॥ यत्र नामनि यावन्तो वर्णाः स्वरसमन्विताः । तांश्च वर्गक्रमेणैव गणयेच स्वरांस्तथा ॥ १०९४ ॥ गणयित्वा कृतं राशि विभनेत् पञ्चभिः पुनः । अवशिष्टस्तु यो राशि वस्वर इतीरितः ॥ १०९५ ॥ ग्रहस्वरः समाख्यातः प्रोक्तो जीवस्वरस्तथा । राशिस्वरमतो वक्ष्ये स्वरशास्त्रानुसारतः ॥ १०९६ ॥ पोक्तो राशिस्वरोकारो रेवत्यादिषु सप्तम् । एवं परेष्विकारायाः स्वराः पश्चसु पञ्चसु ॥ १०९७ ॥ राशिस्वराः समाख्याता वक्ष्यन्ते उदितादयः । उदेत्यकारो नन्दायां भद्रायामिः स्वरः सदा ॥ १०९८ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176