Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 160
________________ मानतोहातः। [विशतिः २ यदा मात्रास्वरो वृद्धस्तदा सन्धिर्विधीयते । शान्तिकं पौष्टिकं कर्म मोक्षदीक्षा समाचरेत् ॥ ११२२ ॥ मृते मात्रास्वरे जाते कुर्यादनशनं व्रतम् । आरभ्य पूर्व दिग्भागाद् रेखामावर्तयेत् सुधीः ॥ ११२३ ॥ पूर्वानयेत वायव्यं वायव्याद् याम्यमानयेत् । याम्यादीशानदिग्भागमैशानात् पश्चिमं नयेत् ॥ ११२४ ॥ पश्चिमात् कोणमाग्नेयमाग्नेयादुत्तरं नयेत् । उत्तरार्ऋतं कोणं नैर्ऋतादैन्द्रमानयेत् ॥ ११२५ ॥ एवमष्टाश्रितं चक्रं जायते सनिवेशतः। तत्र चैत्रादिमासानां विन्यासो दिक्षु वक्ष्यते ॥ ११२६ ॥ चैत्रमासोऽर्दवैशाखः पूर्वभागे भवेत् सदा । अर्द वैशाखमासस्य ज्येष्ठं वायव्यतः क्षिपेत् ।। ११२७ ॥ आपाढं श्रावणस्याः याम्यभागे प्रकल्पयेत् । श्रावणस्यार्धमैशान्यां नमस्यं च विनिक्षिपेत् ॥ ११२८ ॥ आधिनं कार्तिकस्यार्द्ध वारुण्यां दिशि विन्यसेत् । अर्द्धकार्तिक-मार्गों च हुताशनदिशि क्षिपेत् ॥ ११२९ ॥ पौषमध च माघस्य कौवे ककुभि क्षिपेत् । माघस्यादै फाल्गुनं च नैर्ऋत्यां दिशि कल्पयेत् ॥ ११३० यस्यां दिशि स्थितो मासः साईस्तत्रोदयो भवेत् । तावत्कालं भुवः सोऽपि यावन्नाडीयतुष्टयम् ॥ ११११॥ यामा? तु बलं भूमेः क्रमाद् दिक्षु व्यवस्थितम् । रेखाविन्यासमार्गेण क्रमाद् भ्राम्यति मेदिनी ॥ १११२ ॥ उदयादस्तपर्यन्तमस्तादप्युदयावधि । चतुर्यामेषु मेदिन्यां दिक्षु भ्रमणमष्टसु ॥ ११३३ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176