Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 161
________________ अध्यायः १०] मानसोल्लासः। भूषलं पृष्ठतः कार्य दक्षिणे वा जिगीपुणा । एवमन्यानि कार्याणि सिद्धिं यान्ति विनिश्चयम् ॥ ११३४ ॥ अस्यैव चक्रराजस्य कोणानाश्रित्य विन्यसेत् । अष्टौ वर्गानकारादीन् प्रादक्षिण्येन पूर्वतः ॥ ११३५ ॥ अवर्गे गरुडः प्रोक्तः कवर्गे वृपदंशकः । चवर्गे मृगराजः स्यात् टवर्गे सरमासुतः ॥ ११३६ ॥ तवर्गे पन्नगः प्रोक्तः पवर्गे मूषकस्तथा । यवर्गे तु मृगः मोक्तः शवर्गे मेष इप्यते ॥ ११३७ ॥ पूर्वाभैर्ऋतपर्यन्तं भक्षकाः समवस्थिताः । पश्चिमाद् रौद्रदिग्भागं यावद् भक्ष्या व्यवस्थिताः ॥ ११३८ । भक्षकात् पश्चमे स्थाने स्थितो भजति भक्ष्यताम् । तस्माद् विचार्य यनेन शत्रु पश्चमतां नयेत् ॥ ११३९ ॥ एवं नामबलं चक्रे विचार्य पृथिवीपतिः । द्यूतं समाह्वयं युद्धं नारभेत जयोत्सुकः ॥ ११४० ॥ ब्रह्माणी पूर्वदिग्भागे प्रतिपन्नवमे तिथौ । द्वितीयायां दशम्यां च माहेशी सौम्यदिगगता ॥ ११४१ ॥ एकादश्यां तृतीयायां कौबेरी वविदिविस्थता। द्वादश्यां च चतुर्थ्यां च वैष्णवी नैर्ऋते स्थिता ॥ ११४२ ॥ पञ्चम्यां च त्रयोदश्यां वाराह्या दक्षिणे स्थितिः । चतुर्दश्यां तथा षष्ठयामिन्द्राणी पश्चिमोदया ॥ ११४३ ॥ सप्तम्यां पौर्णमास्यां च वायव्ये चण्डिकास्थितिः । अमावास्याऽष्टमीतिथ्योर्महालक्ष्मीस्तयेशगा ॥ ११४४॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176