Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 165
________________ अध्यायः २०] मानसोलालः। सर्वलक्षणसम्पूर्णे भूभागे रिपुमर्दनः । रचयेदुत्तमं व्यूहं परव्यूहविभेदकम् ॥ ११७८ ॥ मुखं पूर्व विभागः स्यादुरश्च तदनन्तरम् । उरसः पश्चिमे भागे पौरस्यं परिकीर्तितम् ॥ ११७९ ॥ पौरस्यस्य तथा पृष्ठे प्रतिग्रह इतीरितः । कक्षौ प्रकक्षौ पक्षौ च प्रपक्षौ पार्थयोः क्रमात् ॥ ११८० ॥ प्रतिग्रहपरो भागः पृष्ठमित्यभिधीयते । एवं व्यूहविभागांश्च विज्ञाय नृपतिस्ततः ॥ ११८१ ॥ मुखे मदमुखं नागं शूरारूढं सुशिक्षितम् । तनुत्राणसमोपेतं योधद्वयसमन्वितम् ॥ ११८२ ॥ पश्चिमासनरूढेन सुभटेन समन्वितम् । त्रिश्चतैः षट्शतैर्वापि नवभिर्वा तथा शतैः ॥ ११८३॥ विधा विभक्तैः मुभटैः स्थानत्रयमुसंस्थितैः । पृष्ठे च कक्षमागे च रक्षितं खड्गपाणिभिः ॥ ११८४ ॥ प्रकादेशनिक्षिप्तैश्चण्डकोदण्डमण्डितैः । सुभटैः शतसङ्ग्यातैः सुलझेढयोतिभिः ॥ ११८५ ॥ पक्षदेशे तथा शूरैः शक्तिखेटकथारिभिः । सहस्रद्वयसङ्ख्यातैस्तदडैर्वा शतैर्वृतम् ॥ ११८६ ॥ प्रपले जवसंयुक्तैर्गात्रत्राणसुरक्षितैः । अवैः सर्वायुधोपेतैर्वाहकैश्च समन्वितैः ॥ ११८७ ॥ शतपञ्चकसख्यातः प्रपक्षद्वयकल्पितः । तुरगैः पत्तिभिः शूरैरावृतं पुरतो न्यसेत् ॥ ११८८ ॥ १D यायिभिः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176