Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
१४२
मानसोल्लासः ।
ब्राह्मणं श्रुतसम्पन्नं धर्मशास्त्रविशारदम् । आत्मनः प्रतिरूपं तु कुर्यादेकं महीपतिः ।। १२५५ ।।
[विंशतिः २
प्रागेव पृच्छति प्रायो वाक्यं वादार्थमागतौ । विचारयति यः सम्यक् पाड़िवाकस्ततः स्मृतः ।। १२५६ ॥
व्पग्रस्य राजकार्येण देहजाड्येन वा स्वयम् । अपश्यतः प्रभोः कार्ये प्राड़िवाको विचारयेत् ।। १२१७ ॥
विमालाभे तु कर्तव्यः कुलीनो दमसंयुतः । परत्र भीरुर्धर्मज्ञः शूरः शान्तो विमत्सरः || १२५८ ॥
अनुद्वेगकरो नित्यं प्रजानां च हिते रतः । दोद्युक्तः समर्थश्च क्षत्रियोऽपि सभापतिः || १२५९ ॥ दौर्लभ्यात् क्षत्रियस्यापि वैश्यं कुर्यात् सभापतिम् । गुणाधिकं च मध्यस्थं जनानां सम्मतं नृपः ॥ १२६० ॥ विप्र क्षत्र- विशः कार्याः श्रेष्ठमध्याधमाः क्रमात् । सर्वथाऽपि न कर्त्तव्यः शूद्रेः क्वापि विचारणे ।। १२६१ ॥
लोभाद्वाऽपि भयो रागात् स्मृतिशास्त्रार्थनाशकाः । दण्डनीयाः पृथक् सभ्या विवादाद् द्विगुणं धनम् ॥ १२६२ ॥
सतां मार्गे समुल्लङ्घ्य बाधितो यो बलीयसा । निवेदयेत यद् राज्ञे तद् विवादपदं स्मृतम् ।। १२६३ ॥
अभियोगो द्विधा ज्ञेयः शङ्कया प्रत्ययेन वा । असत्संसर्गतः शङ्का प्रत्ययोऽन्याङ्गदर्शनात् ।। १२६४ ॥
प्रथमं स्याद् ऋणादानं निक्षेपस्तदनन्तरम् । अस्वामिविक्रयचैव तृतीयं परिकीर्तितम् ।। १२६५ ॥
१ B मदोज्झितः । २ BCE शूद्रश्चापि D शूद्रश्चापि न कर्तव्यो व्यवहारवि । ३D तथा ।
Aho! Shrutgyanam

Page Navigation
1 ... 170 171 172 173 174 175 176