Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः।
[विशति:२ शतं तस्मै प्रदास्यामि समानयति यः शिरः। एवं प्रलोभ्य तान् सर्वान् प्रयायाद् युद्धसम्मुखम् ॥ ११६७॥ मुभटान् बलसंयुक्तान् हयविद्याविशारदान् । वरवाजिसमारूढान् भूपरीक्षाविचक्षणान् ॥ ११६८॥ द्विशतं वा शतं वाऽपि तदर्ध हयसादिनः । पुनः प्रस्थापयेद् राजा युद्धभूमिपरीक्षणे ॥ ११६९ ॥
गत्वा समागतानां तु विज्ञप्त्या च भुवो गुणान् । परेषा व्यूहरचना परिज्ञाय क्षितीश्वरः ॥ ११७०॥
संस्थूलस्थूलवल्मीकक्षगुल्मोपकण्टके । भूभागे रचयेद् राजा व्यूहं व्यूहविचक्षणः ॥ ११७१ ॥ अल्पवृक्षोपलाच्छिद्राऽलचनीयदरीस्थिता । निःशर्करा विपङ्का भूरश्वव्यूहाय शस्यते ॥ ११७२ ॥ निःस्थाणुसिकतापका निर्वल्मीकोपला समा। केदारव्रततिश्वभ्रवृक्षगुल्मविवर्जिता ॥ ११७३ ।। अतीवकठिना भूश्च शुरचङ्गमणक्षमा । स्थिरा चक्रसमा धात्री स्थव्यूहे प्रशस्यते ॥ ११७४ ॥ मुगम्यशैला विषमा मृदुवृक्षावभेदिनी । मुपदरभङ्गा भूर्गजन्यूहे वरा मता ॥ ११७५ ॥ सर्वदोषोज्झिता भूमिः कुत्रचिद् वारिसंयुता । विशाला गुणभूयिष्ठा चतुरङ्गालोचिता ॥ ११७६ ॥ एवं परीक्ष्य भूभागं यस्मिन् यत्र यथोचितम् ।
तत्र संरचयेद् न्यूहान् नृपो युद्धविशारदः ॥ ११७७॥ १ E प्रतिव्यूई वि॰ । २ ABC निरुद्याना निर्देरणा ।
Aho ! Shrutgyanam

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176