Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
१३३
अध्यायः १.]
मानसोल्लासः। वामेतरविषाणाप्रवेष्टनात् स्वकरेण च । बृंहितेन गनानां च जानीयाज्जयमअसा ॥ ११५६ ॥ नराणां शुभवाक्यैश्च मङ्गलद्रव्यदर्शनैः । प्रदक्षिणागमैश्वापि भरद्वाजशिखण्डिनाम् ॥ ११५७ ।। अन्यैश्च शकुनैभव्यैर्जयमङ्गलसूचकैः । दक्षिणाक्ष्णः परिस्पन्दाद् दक्षिणस्य भुजस्य च ॥ ११५८ ॥ मनसश्च प्रसादेन स्वानुकूलानिलेन च । एवं निमित्तैनिश्चित्य जयं समरदुर्जयः ॥ ११५९ ॥ शुभस्थानस्थितैः सर्वैग्रहस्ताराभिरेव च । उदितेन स्वरेणाथ जयभूमिबळेन च ॥ ११६० ॥ निमित्तैविहितोत्साहो निर्गत्य निजमन्दिरात । ताडयित्वा महाभेरी प्रतिसैनिकभीषणीम् ॥ ११६१॥ धनुषां वे शते गत्वा तत्र स्थित्वा नृपोत्तमः । मेलयित्वा बलं सर्वमेवमाघोपयेत् ततः ॥ ११६२ ॥ तस्मै दास्यामि नियुतं राजानं हन्ति यो रणे । तत्कुमारनिहन्तृणां दास्यामि प्रयुतत्रयम् ॥ ११६३ ॥ सामन्तमण्डलाधीशहन्तणां प्रयुत तथा । सचिवामात्यहन्तृणामयुतं पारितोषिकम् ॥ ११६४ ॥ प्रधानयोधहन्तृणां दास्ये पञ्चसहस्रकम् । द्विसहस्र प्रसादेन प्रदास्ये गजघातिनाम् ।। ११६५॥ सहस्रं प्रतिदास्यामि स्यन्दनस्य विघातिनाम् ।
अश्वसादिनिहन्तृणां प्रदास्ये शतपश्चकम् ॥ ११६६ ॥ १ BCE सर्वैर्भयौं।
Aho ! Shrutgyanam

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176