Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 155
________________ अध्यायः २०] मानसोल्लासः। मण्डपैश्चर्मभिनंदैश्चलद्भिश्चक्रयन्त्रकै । नदद्भिः संस्थितैर्योधैः प्रसरद्भिः समन्ततः ॥ १०६४ ॥ अमितळमुखैबर्बाणैर्वायुसंप्रेरितैरपि । आरोहनिर्भटानीकै शूरैनिःश्रेणिकान्वितैः ॥ १०६५ ॥ दन्तिदन्तहढापार्योधोन्मुक्तशरोत्करैः। पतिदुर्गविधानेन दुर्गत्रितयमाहरेत् ॥ १०६६ ॥ कुठारैः शतसाहः छेदयेत् विटपास्तरून् । दहन् दावामिना वाऽपि वनदुर्ग जयेनृपः ॥ १०६७ ॥ पूर्णानि जलभाण्डानि तोयैदेरसमाहतैः। महिषोष्ट्रबलीवर्दैहुधैर्वाऽधिकैरपि ।। १०६८ ॥ आनीय च निजानीकै सन्तर्प्य च चतुर्दिशम् । आवेष्ट्य च खनेत् कूपानगाधांश्च समन्ततः ॥ १०६९ ॥ आरभेत ततो युद्धं यन्त्रपाषाणपावकः । अनळश्चा(लं चा)नुकूलेन वायुना समुदापयेत् ॥ १०७० ॥ अग्नितळमयं वहिं सर्वतो धुलयेदतः।। जलाभावेन सन्तप्ता नाश मेष्यन्ति दुर्गगाः ॥ १०७१ ॥ तोयपानेन सन्तृप्तं कुर्यादात्मबलं नृपः। एवंमकारैरन्यैश्च मरुदुर्ग प्रसाधयेत् ॥ १०७२ ॥ साधयेद् दारुजं दुर्ग चूर्णनाद् गजघट्टनैः । पाषाणपातिभिर्यन्त्रैर्दाहनाद् दहनेन वा ॥१०७३ ॥ नरदुर्ग जयेद् राजा गजाचवळसंयुतः । एवं दण्डः समाख्यातो दुर्गभङ्गसमायः ॥ १०७४ ।। यस्मिन् पुरे वसेच्छत्रुः सपुत्रबलवाहनः । तत् पुरं राजनिलयं सादृप्राकारतोरणम् ॥ २०७५ ॥ १ DE पातकैः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176